Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिःकथाभिरनुकूलाभिः सहासित्वा जनार्दनः ॥१॥
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनःआरुरुक्षू रथं सत्यामाह्वयामास केशवः ॥२॥
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्उवाच वचनं हृद्यं यथाभावसमाहितम् ॥३॥
कृष्णे मा भूत्तवोत्कण्ठा मा व्यथा मा प्रजागरःभर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम् ॥४॥
न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाःप्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥५॥
अवश्यं च त्वया भूमिरियं निहतकण्टकाभर्तृभिः सह भोक्तव्या निर्द्वंद्वेति श्रुतं मया ॥६॥
धार्तराष्ट्रवधं कृत्वा वैराणि प्रतियात्य चयुधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥७॥
यास्ताः प्रव्राजमानां त्वां प्राहसन्दर्पमोहिताःताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥८॥
तव दुःखोपपन्नाया यैराचरितमप्रियम्विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥९॥
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुःश्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिःसहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ॥१०॥
सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तवअभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ॥११॥
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिताप्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा ॥१२॥
भेजे सर्वात्मना चैव प्रद्युम्नजननी तथाभानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥१३॥
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितःरामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयःतुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि ॥१४॥
एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम्गमनाय मनश्चक्रे वासुदेवरथं प्रति ॥१५॥
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्आरुरोह रथं शौरेः सत्यभामा च भामिनी ॥१६॥
स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य चउपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः ॥१७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 224

0
Adhyaya 224Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0