Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम् ॥१॥
लाजैश्चन्दनचूर्णैश्चाप्यवकीर्य जनास्तदाऊचुर्दिष्ट्या नृपाविघ्नात्समाप्तोऽयं क्रतुस्तव ॥२॥
अपरे त्वब्रुवंस्तत्र वातिकास्तं महीपतिम्युधिष्ठिरस्य यज्ञेन न समो ह्येष तु क्रतुःनैव तस्य क्रतोरेष कलामर्हति षोडशीम् ॥३॥
एवं तत्राब्रुवन्केचिद्वातिकास्तं नरेश्वरम्सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः ॥४॥
ययातिर्नहुषश्चापि मान्धाता भरतस्तथाक्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः ॥५॥
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभप्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः ॥६॥
अभिवाद्य ततः पादौ मातापित्रोर्विशां पतेभीष्मद्रोणकृपाणां च विदुरस्य च धीमतः ॥७॥
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृवत्सलःनिषसादासने मुख्ये भ्रातृभिः परिवारितः ॥८॥
तमुत्थाय महाराज सूतपुत्रोऽब्रवीद्वचःदिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः ॥९॥
हतेषु युधि पार्थेषु राजसूये तथा त्वयाआहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः ॥१०॥
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाःसत्यमेतत्त्वया वीर पाण्डवेषु दुरात्मसु ॥११॥
निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौराजसूये पुनर्वीर त्वं मां संवर्धयिष्यसि ॥१२॥
एवमुक्त्वा महाप्राज्ञः कर्णमाश्लिष्य भारतराजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः ॥१३॥
सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमःकदा तु तं क्रतुवरं राजसूयं महाधनम्निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः ॥१४॥
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जरपादौ न धावये तावद्यावन्न निहतोऽर्जुनः ॥१५॥
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैःप्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगेविजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः ॥१६॥
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुंगवान्प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुःतेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत ॥१७॥
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताःचिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित् ॥१८॥
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिताप्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति ॥१९॥
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिपअभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्अनुस्मरंश्च संक्लेशान्न शान्तिमुपयाति सः ॥२०॥
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनःबहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम् ॥२१॥
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम्भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा ॥२२॥
संगम्य सूतपुत्रेण कर्णेनाहवशोभिनादुर्योधनः प्रिये नित्यं वर्तमानो महीपतिःपूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः ॥२३॥
भ्रातॄणां च प्रियं राजन्स चकार परंतपःनिश्चित्य मनसा वीरो दत्तभुक्तफलं धनम् ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 243

0
Adhyaya 243Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0