Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेनअवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकमुत्तरीयम् ॥१॥
बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हान त्वेह वक्तास्ति तवेह वाक्य;मन्यो नरो वाप्यथ वापि नारी ॥२॥
एका ह्यहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम्अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे ॥३॥
जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याःतस्मादहं शैब्य तथैव तुभ्य;माख्यामि बन्धून्प्रति तन्निबोध ॥४॥
अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याःसाहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते ॥५॥
युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः ॥६॥
प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम्मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम् ॥७॥
संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम्प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥८॥
एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीताविवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषामतिथिस्वधर्मम् ॥९॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 250

0
Adhyaya 250Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0