Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
मार्कण्डेय उवाच
ततो निविशमानांस्तान्सैनिकान्रावणानुगाःअभिजग्मुर्गणानेके पिशाचक्षुद्ररक्षसाम् ॥१॥
पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिःप्ररुजश्चारुजश्चैव प्रघसश्चैवमादयः ॥२॥
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम्अन्तर्धानवधं तज्ज्ञश्चकार स विभीषणः ॥३॥
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिःनिहताः सर्वशो राजन्महीं जग्मुर्गतासवः ॥४॥
अमृष्यमाणः सबलो रावणो निर्ययावथव्यूह्य चौशनसं व्यूहं हरीन्सर्वानहारयत् ॥५॥
राघवस्त्वभिनिर्याय व्यूढानीकं दशाननम्बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूहन्निशाचरम् ॥६॥
समेत्य युयुधे तत्र ततो रामेण रावणःयुयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह ॥७॥
विरूपाक्षेण सुग्रीवस्तारेण च निखर्वटःतुण्डेन च नलस्तत्र पटुशः पनसेन च ॥८॥
विषह्यं यं हि यो मेने स स तेन समेयिवान्युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः ॥९॥
स संप्रहारो ववृधे भीरूणां भयवर्धनःलोमसंहर्षणो घोरः पुरा देवासुरे यथा ॥१०॥
रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिःनिशितैरायसैस्तीक्ष्णै रावणं चापि राघवः ॥११॥
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिःइन्द्रजिच्चापि सौमित्रिं बिभेद बहुभिः शरैः ॥१२॥
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्खगपत्रैः शरैस्तीक्ष्णैरभ्यवर्षद्गतव्यथः ॥१३॥
तेषां बलवतामासीन्महास्त्राणां समागमःविव्यथुः सकला येन त्रयो लोकाश्चराचराः ॥१४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 269

0
Adhyaya 269Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0