Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
भगवानुवाचनरस्त्वं पूर्वदेहे वै नारायणसहायवान्बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥१॥
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमेयुवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥२॥
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम्प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥३॥
एतत्तदेव गाण्डीवं तव पार्थ करोचितम्मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तमतूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥४॥
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रमगृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥५॥
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानददिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥६॥
अर्जुन उवाच
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वजकामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥७॥
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥८॥
दहेयं येन संग्रामे दानवान्राक्षसांस्तथाभूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ॥९॥
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाःशराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥१०॥
युध्येयं येन भीष्मेण द्रोणेन च कृपेण चसूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥११॥
एष मे प्रथमः कामो भगवन्भगनेत्रहन्त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥१२॥
भगवानुवाचददानि तेऽस्त्रं दयितमहं पाशुपतं महत्समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥१३॥
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट्वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥१४॥
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥१५॥
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरेमनसा चक्षुषा वाचा धनुषा च निपात्यते ॥१६॥
वैशंपायन उवाच
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितःउपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥१७॥
ततस्त्वध्यापयामास सरहस्य निवर्तनम्तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥१८॥
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥१९॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमाससागरवनोद्देशा सग्रामनगराकरा ॥२०॥
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशःतस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥२१॥
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसःमूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥२२॥
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसःयत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥२३॥
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनःप्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥२४॥
ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवःधनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ॥२५॥
ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम्विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ॥२६॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 41

0
Adhyaya 41Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0