Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
स ददर्श पुरीं रम्यां सिद्धचारणसेविताम्सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥१॥
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम्उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥२॥
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥३॥
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निनास लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥४॥
नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैःनानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥५॥
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचनपानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥६॥
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥७॥
तत्र देवविमानानि कामगानि सहस्रशःसंस्थितान्यभियातानि ददर्शायुतशस्तदा ॥८॥
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवःपुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥९॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयःहृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् ॥१०॥
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैःप्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥११॥
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥१२॥
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपिआदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥१३॥
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाःतुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ॥१४॥
तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनःततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ॥१५॥
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ॥१६॥
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणादिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥१७॥
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैःस्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥१८॥
ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बलीस चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ॥१९॥
ततः शक्रासने पुण्ये देवराजर्षिपूजितेशक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥२०॥
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहाअङ्कमारोपयामास प्रश्रयावनतं तदा ॥२१॥
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदाअध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥२२॥
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥२३॥
परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥२४॥
वज्रग्रहणचिह्नेन करेण बलसूदनःमुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ॥२५॥
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥२६॥
एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम्सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ॥२७॥
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुनागन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥२८॥
घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभाउर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ॥२९॥
गोपाली सहजन्या च कुम्भयोनिः प्रजागराचित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥३०॥
एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाःचित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥३१॥
महाकटितटश्रोण्यः कम्पमानैः पयोधरैःकटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ॥३२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 44

0
Adhyaya 44Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0