Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
उत्सृज्य दमयन्तीं तु नलो राजा विशां पतेददर्श दावं दह्यन्तं महान्तं गहने वने ॥१॥
तत्र शुश्राव मध्येऽग्नौ शब्दं भूतस्य कस्यचित्अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥२॥
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥३॥
स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदाउवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥४॥
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाःतेन मन्युपरीतेन शप्तोऽस्मि मनुजाधिप ॥५॥
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥६॥
सखा च ते भविष्यामि मत्समो नास्ति पन्नगःलघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥७॥
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकःतं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥८॥
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मनाउत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥९॥
पदानि गणयन्गच्छ स्वानि नैषध कानिचित्तत्र तेऽहं महाराज श्रेयो धास्यामि यत्परम् ॥१०॥
ततः संख्यातुमारब्धमदशद्दशमे पदेतस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥११॥
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलःस्वरूपधारिणं नागं ददर्श च महीपतिः ॥१२॥
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्मया तेऽन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥१३॥
यत्कृते चासि विकृतो दुःखेन महता नलविषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥१४॥
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यतितावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥१५॥
अनागा येन निकृतस्त्वमनर्हो जनाधिपक्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥१६॥
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोऽपि वाब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥१७॥
राजन्विषनिमित्ता च न ते पीडा भविष्यतिसंग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥१८॥
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन्समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ॥१९॥
स तेऽक्षहृदयं दाता राजाश्वहृदयेन वैइक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥२०॥
भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदासमेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाःराज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥२१॥
स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिपसंस्मर्तव्यस्तदा तेऽहं वासश्चेदं निवासयेः ॥२२॥
अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसेइत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥२३॥
एवं नलं समादिश्य वासो दत्त्वा च कौरवनागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 63

0
Adhyaya 63Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0