Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलःऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥१॥
स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन्अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥२॥
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु चअन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥३॥
यानि शिल्पानि लोकेऽस्मिन्यच्चाप्यन्यत्सुदुष्करम्सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥४॥
ऋतुपर्ण उवाच
वस बाहुक भद्रं ते सर्वमेतत्करिष्यसिशीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ॥५॥
स त्वमातिष्ठ योगं तं येन शीघ्रा हया ममभवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥६॥
त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौएताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥७॥
बृहदश्व उवाच
एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितःऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥८॥
स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन्सायं सायं सदा चेमं श्लोकमेकं जगाद ह ॥९॥
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनीस्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥१०॥
एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत्कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ॥११॥
तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्आसीद्बहुमता नारी तस्या दृढतरं च सः ॥१२॥
स वै केनचिदर्थेन तया मन्दो व्ययुज्यतविप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ॥१३॥
दह्यमानः स शोकेन दिवारात्रमतन्द्रितःनिशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥१४॥
स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किंचनवसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥१५॥
सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वनेत्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥१६॥
एका बालानभिज्ञा च मार्गाणामतथोचिताक्षुत्पिपासापरीता च दुष्करं यदि जीवति ॥१७॥
श्वापदाचरिते नित्यं वने महति दारुणेत्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ॥१८॥
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ॥१९॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 64

0
Adhyaya 64Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0