Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गतेद्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥१॥
संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥२॥
अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपेगवां सहस्रं दास्यामि यो वस्तावानयिष्यतिअग्रहारं च दास्यामि ग्रामं नगरसंमितम् ॥३॥
न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वाज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम् ॥४॥
इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम्पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ॥५॥
ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजःविचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनिपुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥६॥
मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम्पिनद्धां धूमजालेन प्रभामिव विभावसोः ॥७॥
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्तर्कयामास भैमीति कारणैरुपपादयन् ॥८॥
सुदेव उवाच
यथेयं मे पुरा दृष्टा तथारूपेयमङ्गनाकृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ॥९॥
पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥१०॥
चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिवइष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥११॥
विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ॥१२॥
पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥१३॥
विध्वस्तपर्णकमलां वित्रासितविहंगमाम्हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥१४॥
सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥१५॥
रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥१६॥
कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन चदेहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ॥१७॥
भर्ता नाम परं नार्या भूषणं भूषणैर्विनाएषा विरहिता तेन शोभनापि न शोभते ॥१८॥
दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलःधारयत्यात्मनो देहं न शोकेनावसीदति ॥१९॥
इमामसितकेशान्तां शतपत्रायतेक्षणाम्सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥२०॥
कदा नु खलु दुःखस्य पारं यास्यति वै शुभाभर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥२१॥
अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यतिराजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥२२॥
तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम्नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा ॥२३॥
युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मयासमाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥२४॥
अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ॥२५॥
बृहदश्व उवाच
एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत् ॥२६॥
अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखाभीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥२७॥
कुशली ते पिता राज्ञि जनित्री भ्रातरश्च तेआयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च तेत्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ॥२८॥
अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिरपर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ॥२९॥
रुरोद च भृशं राजन्वैदर्भी शोककर्शितादृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥३०॥
ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम्सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥३१॥
जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम्ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ॥३२॥
अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदाजगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥३३॥
ततः सुदेवमानाय्य राजमाता विशां पतेपप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥३४॥
कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचनात्वया च विदिता विप्र कथमेवंगता सती ॥३५॥
एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतःतत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ॥३६॥
एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमःसुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥३७॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 65

0
Adhyaya 65Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0