Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपःसान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥१॥
विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम्एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥२॥
एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य हव्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥३॥
दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिताअस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥४॥
नृशंसं बत वैदर्भी कर्तुकामा तपस्विनीमया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ॥५॥
स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणःस्यादेवमपि कुर्यात्सा विवशा गतसौहृदामम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥६॥
न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतःयदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम्ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥७॥
इति निश्चित्य मनसा बाहुको दीनमानसःकृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ॥८॥
प्रतिजानामि ते सत्यं गमिष्यसि नराधिपएकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥९॥
ततः परीक्षामश्वानां चक्रे राजन्स बाहुकःअश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥१०॥
स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकःअध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥११॥
तेजोबलसमायुक्तान्कुलशीलसमन्वितान्वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून्शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥१२॥
दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितःकिमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥१३॥
कथमल्पबलप्राणा वक्ष्यन्तीमे हया मममहानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥१४॥
बाहुक उवाच
एते हया गमिष्यन्ति विदर्भान्नात्र संशयःअथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥१५॥
ऋतुपर्ण उवाच
त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुकयान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥१६॥
बृहदश्व उवाच
ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्योजयामास कुशलो जवयुक्तान्रथे नरः ॥१७॥
ततो युक्तं रथं राजा समारोहत्त्वरान्वितःअथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥१८॥
ततो नरवरः श्रीमान्नलो राजा विशां पतेसान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥१९॥
रश्मिभिश्च समुद्यम्य नलो यातुमियेष सःसूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥२०॥
ते चोद्यमाना विधिना बाहुकेन हयोत्तमाःसमुत्पेतुरिवाकाशं रथिनं मोहयन्निव ॥२१॥
तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसःअयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥२२॥
रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥२३॥
किं नु स्यान्मातलिरयं देवराजस्य सारथिःतथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥२४॥
शालिहोत्रोऽथ किं नु स्याद्धयानां कुलतत्त्ववित्मानुषं समनुप्राप्तो वपुः परमशोभनम् ॥२५॥
उताहोस्विद्भवेद्राजा नलः परपुरंजयःसोऽयं नृपतिरायात इत्येवं समचिन्तयत् ॥२६॥
अथ वा यां नलो वेद विद्यां तामेव बाहुकःतुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥२७॥
अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य चनायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥२८॥
प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ॥२९॥
भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रतिप्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥३०॥
वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययःनलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥३१॥
एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत्हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥३२॥
ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम्चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥३३॥
बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत्परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह ॥३४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 69

0
Adhyaya 69Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0