Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रतिधृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ॥१॥
स सभाद्वारमागम्य विदुरस्मारमोहितःसमक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ॥२॥
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ॥३॥
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरःतस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥४॥
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वैइति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ॥५॥
पश्चात्तापाभिसंतप्तो विदुरस्मारकर्शितःभ्रातृस्नेहादिदं राजन्संजयं वाक्यमब्रवीत् ॥६॥
गच्छ संजय जानीहि भ्रातरं विदुरं ममयदि जीवति रोषेण मया पापेन निर्धुतः ॥७॥
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचनव्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ॥८॥
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्न जह्याज्जीवितं प्राज्ञस्तं गच्छानय संजय ॥९॥
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य चसंजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ॥१०॥
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाःरौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥११॥
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशःभ्रातृभिश्चाभिसंगुप्तं देवैरिव शतक्रतुम् ॥१२॥
युधिष्ठिरमथाभ्येत्य पूजयामास संजयःभीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ॥१३॥
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयःशशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥१४॥
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतःतं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ॥१५॥
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ॥१६॥
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलःयुधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥१७॥
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान्दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥१८॥
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभप्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ॥१९॥
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव हक्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ॥२०॥
विदुर उवाच
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान्तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ॥२१॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसःदीनाभिपातिनो राजन्नात्र कार्या विचारणा ॥२२॥
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तवदीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ॥२३॥
वैशंपायन उवाच
अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युतीविदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥२४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 7

0
Adhyaya 7Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0