Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
दमयन्त्युवाचगच्छ केशिनि जानीहि क एष रथवाहकःउपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥१॥
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहितापृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥२॥
अत्र मे महती शङ्का भवेदेष नलो नृपःतथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ॥३॥
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथाप्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥४॥
बृहदश्व उवाच
एवं समाहिता गत्वा दूती बाहुकमब्रवीत्दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ॥५॥
केशिन्युवाचस्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥६॥
कदा वै प्रस्थिता यूयं किमर्थमिह चागताःतत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥७॥
बाहुक उवाच
श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विनाद्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ॥८॥
श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिःहयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥९॥
केशिन्युवाचअथ योऽसौ तृतीयो वः स कुतः कस्य वा पुनःत्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥१०॥
बाहुक उवाच
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतःस नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ॥११॥
अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितःऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥१२॥
केशिन्युवाचअथ जानाति वार्ष्णेयः क्व नु राजा नलो गतःकथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक ॥१३॥
बाहुक उवाच
इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणःगतस्ततो यथाकामं नैष जानाति नैषधम् ॥१४॥
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनिगूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥१५॥
आत्मैव हि नलं वेत्ति या चास्य तदनन्तरान हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥१६॥
केशिन्युवाचयोऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदाइमानि नारीवाक्यानि कथयानः पुनः पुनः ॥१७॥
क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो ममउत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥१८॥
सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणीदह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ॥१९॥
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिवप्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ॥२०॥
तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामतेतदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ॥२१॥
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किलयत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥२२॥
बृहदश्व उवाच
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दनहृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥२३॥
स निगृह्यात्मनो दुःखं दह्यमानो महीपतिःबाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥२४॥
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियःआत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥२५॥
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचनप्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥२६॥
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससःआधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥२७॥
सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥२८॥
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितःन बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥२९॥
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ॥३०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 72

0
Adhyaya 72Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0