Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
बृहदश्व उवाच
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणाशङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥१॥
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुकेअब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥२॥
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनितत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥३॥
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनियाचते न जलं देयं सम्यगत्वरमाणया ॥४॥
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदययच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥५॥
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनीनिशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ॥६॥
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥७॥
केशिन्युवाचदृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित्दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥८॥
ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥९॥
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशःप्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥१०॥
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितःस तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥११॥
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकःतृणमुष्टिं समादाय आविध्यैनं समादधत् ॥१२॥
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनःतदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥१३॥
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मयायदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥१४॥
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥१५॥
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैःमृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥१६॥
भूय एव सुगन्धीनि हृषितानि भवन्ति चएतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥१७॥
बृहदश्व उवाच
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥१८॥
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ॥१९॥
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्महानसाच्छृतं मांसं समादायैहि भामिनि ॥२०॥
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य चअत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणीदमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥२१॥
सोचिता नलसिद्धस्य मांसस्य बहुशः पुराप्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ॥२२॥
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततःमिथुनं प्रेषयामास केशिन्या सह भारत ॥२३॥
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकःअभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥२४॥
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौभृशं दुःखपरीतात्मा सस्वरं प्ररुरोद ह ॥२५॥
नैषधो दर्शयित्वा तु विकारमसकृत्तदाउत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥२६॥
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोःततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥२७॥
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतःवयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ॥२८॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 73

0
Adhyaya 73Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0