Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
पुलस्त्य उवाच
अथ संध्यां समासाद्य संवेद्यं तीर्थमुत्तमम्उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥१॥
रामस्य च प्रसादेन तीर्थं राजन्कृतं पुरातल्लोहित्यं समासाद्य विन्द्याद्बहु सुवर्णकम् ॥२॥
करतोयां समासाद्य त्रिरात्रोपोषितो नरःअश्वमेधमवाप्नोति कृते पैतामहे विधौ ॥३॥
गङ्गायास्त्वथ राजेन्द्र सागरस्य च संगमेअश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥४॥
गङ्गायास्त्वपरं द्वीपं प्राप्य यः स्नाति भारतत्रिरात्रोपोषितो राजन्सर्वकामानवाप्नुयात् ॥५॥
ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम्विरजं तीर्थमासाद्य विराजति यथा शशी ॥६॥
प्रभवेच्च कुले पुण्ये सर्वपापं व्यपोहतिगोसहस्रफलं लब्ध्वा पुनाति च कुलं नरः ॥७॥
शोणस्य ज्योतिरथ्याश्च संगमे निवसञ्शुचिःतर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥८॥
शोणस्य नर्मदायाश्च प्रभवे कुरुनन्दनवंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत् ॥९॥
ऋषभं तीर्थमासाद्य कोशलायां नराधिपवाजपेयमवाप्नोति त्रिरात्रोपोषितो नरः ॥१०॥
कोशलायां समासाद्य कालतीर्थ उपस्पृशेत्वृषभैकादशफलं लभते नात्र संशयः ॥११॥
पुष्पवत्यामुपस्पृश्य त्रिरात्रोपोषितो नरःगोसहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् ॥१२॥
ततो बदरिकातीर्थे स्नात्वा प्रयतमानसःदीर्घमायुरवाप्नोति स्वर्गलोकं च गच्छति ॥१३॥
ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम्रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥१४॥
मतङ्गस्य तु केदारस्तत्रैव कुरुनन्दनतत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥१५॥
श्रीपर्वतं समासाद्य नदीतीर उपस्पृशेत्अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥१६॥
श्रीपर्वते महादेवो देव्या सह महाद्युतिःन्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः ॥१७॥
तत्र देवह्रदे स्नात्वा शुचिः प्रयतमानसःअश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥१८॥
ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम्वाजपेयमवाप्नोति नाकपृष्ठे च मोदते ॥१९॥
ततो गच्छेत कावेरीं वृतामप्सरसां गणैःतत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥२०॥
ततस्तीरे समुद्रस्य कन्यातीर्थ उपस्पृशेत्तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥२१॥
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम्समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥२२॥
यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाःभूतयक्षपिशाचाश्च किंनराः समहोरगाः ॥२३॥
सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथासरितः सागराः शैला उपासन्त उमापतिम् ॥२४॥
तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरःदशाश्वमेधमाप्नोति गाणपत्यं च विन्दतिउष्य द्वादशरात्रं तु कृतात्मा भवते नरः ॥२५॥
तत एव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम्त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् ॥२६॥
निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिपगायत्रीं पठते यस्तु योनिसंकरजस्तथागाथा वा गीतिका वापि तस्य संपद्यते नृप ॥२७॥
संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम्रूपस्य भागी भवति सुभगश्चैव जायते ॥२८॥
ततो वेण्णां समासाद्य तर्पयेत्पितृदेवताःमयूरहंससंयुक्तं विमानं लभते नरः ॥२९॥
ततो गोदावरीं प्राप्य नित्यं सिद्धनिषेविताम्गवामयमवाप्नोति वासुकेर्लोकमाप्नुयात् ॥३०॥
वेण्णायाः संगमे स्नात्वा वाजपेयफलं लभेत्वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥३१॥
ब्रह्मस्थानं समासाद्य त्रिरात्रमुषितो नरःगोसहस्रफलं विन्देत्स्वर्गलोकं च गच्छति ॥३२॥
कुशप्लवनमासाद्य ब्रह्मचारी समाहितःत्रिरात्रमुषितः स्नात्वा अश्वमेधफलं लभेत् ॥३३॥
ततो देवह्रदे रम्ये कृष्णवेण्णाजलोद्भवेजातिमात्रह्रदे चैव तथा कन्याश्रमे नृप ॥३४॥
यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतःअग्निष्टोमशतं विन्देद्गमनादेव भारत ॥३५॥
सर्वदेवह्रदे स्नात्वा गोसहस्रफलं लभेत्जातिमात्रह्रदे स्नात्वा भवेज्जातिस्मरो नरः ॥३६॥
ततोऽवाप्य महापुण्यां पयोष्णीं सरितां वराम्पितृदेवार्चनरतो गोसहस्रफलं लभेत् ॥३७॥
दण्डकारण्यमासाद्य महाराज उपस्पृशेत्गोसहस्रफलं तत्र स्नातमात्रस्य भारत ॥३८॥
शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनःन दुर्गतिमवाप्नोति पुनाति च कुलं नरः ॥३९॥
ततः शूर्पारकं गच्छेज्जामदग्न्यनिषेवितम्रामतीर्थे नरः स्नात्वा विन्द्याद्बहु सुवर्णकम् ॥४०॥
सप्तगोदावरे स्नात्वा नियतो नियताशनःमहत्पुण्यमवाप्नोति देवलोकं च गच्छति ॥४१॥
ततो देवपथं गच्छेन्नियतो नियताशनःदेवसत्रस्य यत्पुण्यं तदवाप्नोति मानवः ॥४२॥
तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियःवेदानध्यापयत्तत्र ऋषिः सारस्वतः पुरा ॥४३॥
तत्र वेदान्प्रनष्टांस्तु मुनेरङ्गिरसः सुतःउपविष्टो महर्षीणामुत्तरीयेषु भारत ॥४४॥
ओंकारेण यथान्यायं सम्यगुच्चारितेन चयेन यत्पूर्वमभ्यस्तं तत्तस्य समुपस्थितम् ॥४५॥
ऋषयस्तत्र देवाश्च वरुणोऽग्निः प्रजापतिःहरिर्नारायणो देवो महादेवस्तथैव च ॥४६॥
पितामहश्च भगवान्देवैः सह महाद्युतिःभृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥४७॥
ततः स चक्रे भगवानृषीणां विधिवत्तदासर्वेषां पुनराधानं विधिदृष्टेन कर्मणा ॥४८॥
आज्यभागेन वै तत्र तर्पितास्तु यथाविधिदेवास्त्रिभुवणं याता ऋषयश्च यथासुखम् ॥४९॥
तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तमपापं प्रणश्यते सर्वं स्त्रियो वा पुरुषस्य वा ॥५०॥
तत्र मासं वसेद्धीरो नियतो नियताशनःब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं नरः ॥५१॥
मेधाविकं समासाद्य पितॄन्देवांश्च तर्पयेत्अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥५२॥
ततः कालंजरं गत्वा पर्वतं लोकविश्रुतम्तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत् ॥५३॥
आत्मानं साधयेत्तत्र गिरौ कालंजरे नृपस्वर्गलोके महीयेत नरो नास्त्यत्र संशयः ॥५४॥
ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पतेमन्दाकिनीं समासाद्य नदीं पापप्रमोचनीम् ॥५५॥
तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतःअश्वमेधमवाप्नोति गतिं च परमां व्रजेत् ॥५६॥
ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम्यत्र देवो महासेनो नित्यं संनिहितो नृपः ॥५७॥
पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यतिकोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥५८॥
प्रदक्षिणमुपावृत्य ज्येष्ठस्थानं व्रजेन्नरःअभिगम्य महादेवं विराजति यथा शशी ॥५९॥
तत्र कूपो महाराज विश्रुतो भरतर्षभसमुद्रास्तत्र चत्वारो निवसन्ति युधिष्ठिर ॥६०॥
तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम्नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥६१॥
ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत्यत्र तीर्णो महाराज रामो दाशरथिः पुरा ॥६२॥
गङ्गायां तु नरः स्नात्वा ब्रह्मचारी समाहितःविधूतपाप्मा भवति वाजपेयं च विन्दति ॥६३॥
अभिगम्य महादेवमभ्यर्च्य च नराधिपप्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥६४॥
ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम्यत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः ॥६५॥
लोकपालाश्च साध्याश्च नैरृताः पितरस्तथासनत्कुमारप्रमुखास्तथैव परमर्षयः ॥६६॥
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयोऽपरेतथा नागाः सुपर्णाश्च सिद्धाश्चक्रचरास्तथा ॥६७॥
सरितः सागराश्चैव गन्धर्वाप्सरसस्तथाहरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥६८॥
तत्र त्रीण्यग्निकुण्डानि येषां मध्ये च जाह्नवीप्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥६९॥
तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुतायमुना गङ्गया सार्धं संगता लोकपावनी ॥७०॥
गङ्गायमुनयोर्मध्यं पृथिव्या जघनं स्मृतम्प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ॥७१॥
प्रयागं सप्रतिष्ठानं कम्बलाश्वतरौ तथातीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः ॥७२॥
तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिरप्रजापतिमुपासन्ते ऋषयश्च महाव्रताःयजन्ते क्रतुभिर्देवास्तथा चक्रचरा नृप ॥७३॥
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारतप्रयागः सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो ॥७४॥
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपिमृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥७५॥
तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतःपुण्यं स फलमाप्नोति राजसूयाश्वमेधयोः ॥७६॥
एषा यजनभूमिर्हि देवानामपि सत्कृतातत्र दत्तं सूक्ष्ममपि महद्भवति भारत ॥७७॥
न वेदवचनात्तात न लोकवचनादपिमतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥७८॥
दश तीर्थसहस्राणि षष्टिकोट्यस्तथापराःयेषां सांनिध्यमत्रैव कीर्तितं कुरुनन्दन ॥७९॥
चातुर्वेदे च यत्पुण्यं सत्यवादिषु चैव यत्स्नात एव तदाप्नोति गङ्गायमुनसंगमे ॥८०॥
तत्र भोगवती नाम वासुकेस्तीर्थमुत्तमम्तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवाप्नुयात् ॥८१॥
तत्र हंसप्रपतनं तीर्थं त्रैलोक्यविश्रुतम्दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन ॥८२॥
यत्र गङ्गा महाराज स देशस्तत्तपोवनम्सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥८३॥
इदं सत्यं द्विजातीनां साधूनामात्मजस्य चसुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥८४॥
इदं धर्म्यमिदं पुण्यमिदं मेध्यमिदं सुखम्इदं स्वर्ग्यमिदं रम्यमिदं पावनमुत्तमम् ॥८५॥
महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम्अधीत्य द्विजमध्ये च निर्मलत्वमवाप्नुयात् ॥८६॥
यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिःजातीः स स्मरते बह्वीर्नाकपृष्ठे च मोदते ॥८७॥
गम्यान्यपि च तीर्थानि कीर्तितान्यगमानि चमनसा तानि गच्छेत सर्वतीर्थसमीक्षया ॥८८॥
एतानि वसुभिः साध्यैरादित्यैर्मरुदश्विभिःऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः ॥८९॥
एवं त्वमपि कौरव्य विधिनानेन सुव्रतव्रज तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥९०॥
भावितैः कारणैः पूर्वमास्तिक्याच्छ्रुतिदर्शनात्प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः ॥९१॥
नाव्रतो नाकृतात्मा च नाशुचिर्न च तस्करःस्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥९२॥
त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिनापितरस्तारितास्तात सर्वे च प्रपितामहाः ॥९३॥
पितामहपुरोगाश्च देवाः सर्षिगणा नृपतव धर्मेण धर्मज्ञ नित्यमेवाभितोषिताः ॥९४॥
अवाप्स्यसि च लोकान्वै वसूनां वासवोपमकीर्तिं च महतीं भीष्म प्राप्स्यसे भुवि शाश्वतीम् ॥९५॥
नारद उवाच
एवमुक्त्वाभ्यनुज्ञाप्य पुलस्त्यो भगवानृषिःप्रीतः प्रीतेन मनसा तत्रैवान्तरधीयत ॥९६॥
भीष्मश्च कुरुशार्दूल शास्त्रतत्त्वार्थदर्शिवान्पुलस्त्यवचनाच्चैव पृथिवीमनुचक्रमे ॥९७॥
अनेन विधिना यस्तु पृथिवीं संचरिष्यतिअश्वमेधशतस्याग्र्यं फलं प्रेत्य स भोक्ष्यते ॥९८॥
अतश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम्नेता च त्वमृषीन्यस्मात्तेन तेऽष्टगुणं फलम् ॥९९॥
रक्षोगणावकीर्णानि तीर्थान्येतानि भारतन गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥१००॥
इदं देवर्षिचरितं सर्वतीर्थार्थसंश्रितम्यः पठेत्कल्यमुत्थाय सर्वपापैः प्रमुच्यते ॥१०१॥
ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ काश्यपःआत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गौतमः ॥१०२॥
असितो देवलश्चैव मार्कण्डेयोऽथ गालवःभरद्वाजो वसिष्ठश्च मुनिरुद्दालकस्तथा ॥१०३॥
शौनकः सह पुत्रेण व्यासश्च जपतां वरःदुर्वासाश्च मुनिश्रेष्ठो गालवश्च महातपाः ॥१०४॥
एते ऋषिवराः सर्वे त्वत्प्रतीक्षास्तपोधनाःएभिः सह महाराज तीर्थान्येतान्यनुव्रज ॥१०५॥
एष वै लोमशो नाम देवर्षिरमितद्युतिःसमेष्यति त्वया चैव तेन सार्धमनुव्रज ॥१०६॥
मया च सह धर्मज्ञ तीर्थान्येतान्यनुव्रजप्राप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः ॥१०७॥
यथा ययातिर्धर्मात्मा यथा राजा पुरूरवाःतथा त्वं कुरुशार्दूल स्वेन धर्मेण शोभसे ॥१०८॥
यथा भगीरथो राजा यथा रामश्च विश्रुतःतथा त्वं सर्वराजभ्यो भ्राजसे रश्मिवानिव ॥१०९॥
यथा मनुर्यथेक्ष्वाकुर्यथा पूरुर्महायशाःयथा वैन्यो महातेजास्तथा त्वमपि विश्रुतः ॥११०॥
यथा च वृत्रहा सर्वान्सपत्नान्निर्दहत्पुरातथा शत्रुक्षयं कृत्वा प्रजास्त्वं पालयिष्यसि ॥१११॥
स्वधर्मविजितामुर्वीं प्राप्य राजीवलोचनख्यातिं यास्यसि धर्मेण कार्तवीर्यार्जुनो यथा ॥११२॥
वैशंपायन उवाच
एवमाश्वास्य राजानं नारदो भगवानृषिःअनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत ॥११३॥
युधिष्ठिरोऽपि धर्मात्मा तमेवार्थं विचिन्तयन्तीर्थयात्राश्रयं पुण्यमृषीणां प्रत्यवेदयत् ॥११४॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 83

0
Adhyaya 83Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0