Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतःपितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥१॥
मया स पुरुषव्याघ्रो जिष्णुः सत्यपराक्रमःअस्त्रहेतोर्महाबाहुरमितात्मा विवासितः ॥२॥
स हि वीरोऽनुरक्तश्च समर्थश्च तपोधनकृती च भृशमप्यस्त्रे वासुदेव इव प्रभुः ॥३॥
अहं ह्येतावुभौ ब्रह्मन्कृष्णावरिनिघातिनौअभिजानामि विक्रान्तौ तथा व्यासः प्रतापवान्त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ ॥४॥
नारदोऽपि तथा वेद सोऽप्यशंसत्सदा ममतथाहमपि जानामि नरनारायणावृषी ॥५॥
शक्तोऽयमित्यतो मत्वा मया संप्रेषितोऽर्जुनःइन्द्रादनवरः शक्तः सुरसूनुः सुराधिपम्द्रष्टुमस्त्राणि चादातुमिन्द्रादिति विवासितः ॥६॥
भीष्मद्रोणावतिरथौ कृपो द्रौणिश्च दुर्जयःधृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाःसर्वे वेदविदः शूराः सर्वेऽस्त्रकुशलास्तथा ॥७॥
योद्धुकामश्च पार्थेन सततं यो महाबलःस च दिव्यास्त्रवित्कर्णः सूतपुत्रो महारथः ॥८॥
सोऽश्ववेगानिलबलः शरार्चिस्तलनिस्वनःरजोधूमोऽस्त्रसंतापो धार्तराष्ट्रानिलोद्धतः ॥९॥
निसृष्ट इव कालेन युगान्तज्वलनो यथामम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥१०॥
तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान्श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ॥११॥
सततं शरधाराभिः प्रदीप्तं कर्णपावकम्उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥१२॥
स साक्षादेव सर्वाणि शक्रात्परपुरंजयःदिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ॥१३॥
अलं स तेषां सर्वेषामिति मे धीयते मतिःनास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ॥१४॥
तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम्द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥१५॥
वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वरअवधानं न गच्छामः काम्यके सह कृष्णया ॥१६॥
भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचिआख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥१७॥
यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम्प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥१८॥
विविधानाश्रमान्कांश्चिद्द्विजातिभ्यः परिश्रुतान्सरांसि सरितश्चैव रमणीयांश्च पर्वतान् ॥१९॥
आचक्ष्व न हि नो ब्रह्मन्रोचते तमृतेऽर्जुनम्वनेऽस्मिन्काम्यके वासो गच्छामोऽन्यां दिशं प्रति ॥२०॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 84

0
Adhyaya 84Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0