Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसःआश्वासयंस्तदा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥१॥
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभदिशस्तीर्थानि शैलांश्च शृणु मे गदतो नृप ॥२॥
पूर्वं प्राचीं दिशं राजन्राजर्षिगणसेविताम्रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथास्मृति ॥३॥
तस्यां देवर्षिजुष्टायां नैमिषं नाम भारतयत्र तीर्थानि देवानां सुपुण्यानि पृथक्पृथक् ॥४॥
यत्र सा गोमती पुण्या रम्या देवर्षिसेवितायज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥५॥
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतःशिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ॥६॥
यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाःएष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥७॥
महानदी च तत्रैव तथा गयशिरोऽनघयत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटःयत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो ॥८॥
सा च पुण्यजला यत्र फल्गुनामा महानदीबहुमूलफला चापि कौशिकी भरतर्षभविश्वामित्रोऽभ्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥९॥
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथःअयजत्तात बहुभिः क्रतुभिर्भूरिदक्षिणैः ॥१०॥
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम्विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकःयत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ ॥११॥
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम्कन्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकःततः क्षत्रादपाक्रामद्ब्राह्मणोऽस्मीति चाब्रवीत् ॥१२॥
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम्गङ्गायमुनयोर्वीर संगमं लोकविश्रुतम् ॥१३॥
यत्रायजत भूतात्मा पूर्वमेव पितामहःप्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥१४॥
अगस्त्यस्य च राजेन्द्र तत्राश्रमवरो महान्हिरण्यबिन्दुः कथितो गिरौ कालंजरे नृप ॥१५॥
अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवःमहेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः ॥१६॥
अयजद्यत्र कौन्तेय पूर्वमेव पितामहःयत्र भागीरथी पुण्या सदस्यासीद्युधिष्ठिर ॥१७॥
यत्रासौ ब्रह्मशालेति पुण्या ख्याता विशां पतेधूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥१८॥
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनःकेदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥१९॥
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकःनैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥२०॥
यत्र देववनं रम्यं तापसैरुपशोभितम्बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥२१॥
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि चप्राच्यां दिशि महाराज कीर्तितानि मया तव ॥२२॥
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणुसरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥२३॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 85

0
Adhyaya 85Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0