Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
व्यास उवाच
धृतराष्ट्र महाप्राज्ञ निबोध वचनं ममवक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ॥१॥
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ॥२॥
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशेविमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥३॥
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीःपाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥४॥
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतःवनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ॥५॥
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥६॥
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितःअधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥७॥
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारतउपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ॥८॥
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतःपाण्डवैः सहितो राजन्नेक एवासहायवान् ॥९॥
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैःयदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ॥१०॥
अथ वा जायमानस्य यच्छीलमनुजायतेश्रूयते तन्महाराज नामृतस्यापसर्पति ॥११॥
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वाभवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ॥१२॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 9

0
Adhyaya 9Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0