Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Aranyaka Parva
वैशंपायन उवाच
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनःअभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥१॥
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सहदेवर्षिणा च सहितो लोमशेन महात्मना ॥२॥
अस्मानपि महाराज नेतुमर्हसि पाण्डवअस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥३॥
श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि चअगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥४॥
भवन्तो भ्रातरः शूरा धनुर्धरवराः सदाभवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ॥५॥
भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम्तीर्थानां पृथिवीपाल व्रतानां च विशां पते ॥६॥
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताःभवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥७॥
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारतअष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ॥८॥
भरतस्य च वीरस्य सार्वभौमस्य पार्थिवध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥९॥
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन्त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ॥१०॥
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिपकुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥११॥
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदाअनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥१२॥
तीर्थान्युक्तानि धौम्येन नारदेन च धीमतायान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥१३॥
विधिवत्तानि सर्वाणि पर्यटस्व नराधिपधूतपाप्मा सहास्माभिर्लोमशेन च पालितः ॥१४॥
स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतःभीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितःबाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ॥१५॥
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम्ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशीद्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥१६॥
अथ व्यासो महाभागस्तथा नारदपर्वतौकाम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ॥१७॥
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधिसत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥१८॥
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम्मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत ॥१९॥
शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम्मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥२०॥
मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिपमैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥२१॥
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैःदैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥२२॥
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाःकृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ॥२३॥
लोमशस्योपसंगृह्य पादौ द्वैपायनस्य चनारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥२४॥
धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिःमार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥२५॥
कठिनानि समादाय चीराजिनजटाधराःअभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ॥२६॥
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैःमहानसव्यापृतैश्च तथान्यैः परिचारकैः ॥२७॥
सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाःप्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥२८॥
End of chapter ॥
1
Mahabharata · Aranyaka Parva

Adhyaya 91

0
Adhyaya 91Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0