Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
युधिष्ठिर उवाच
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसिसुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥१॥
नकुल उवाच
अश्वबन्धो भविष्यामि विराटनृपतेरहम्ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ॥२॥
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सितेप्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥३॥
ये मामामन्त्रयिष्यन्ति विराटनगरे जनाःतेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥४॥
युधिष्ठिर उवाच
सहदेव कथं तस्य समीपे विहरिष्यसिकिं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥५॥
सहदेव उवाच
गोसंख्याता भविष्यामि विराटस्य महीपतेःप्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् ॥६॥
तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु तेनिपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ॥७॥
अहं हि भवता गोषु सततं प्रकृतः पुरातत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥८॥
लक्षणं चरितं चापि गवां यच्चापि मङ्गलम्तत्सर्वं मे सुविदितमन्यच्चापि महीपते ॥९॥
वृषभानपि जानामि राजन्पूजितलक्षणान्येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥१०॥
सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदान च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ॥११॥
युधिष्ठिर उवाच
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसीमातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥१२॥
केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यतिन हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥१३॥
सुकुमारी च बाला च राजपुत्री यशस्विनीपतिव्रता महाभागा कथं नु विचरिष्यति ॥१४॥
माल्यगन्धानलंकारान्वस्त्राणि विविधानि चएतान्येवाभिजानाति यतो जाता हि भामिनी ॥१५॥
द्रौपद्युवाचसैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारतनैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥१६॥
साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणिआत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ॥१७॥
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥१८॥
युधिष्ठिर उवाच
कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत्न पापमभिजानासि साधु साध्वीव्रते स्थिता ॥१९॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 3

0
Adhyaya 3Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0