Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Virata Parva
वैशंपायन उवाच
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ॥१॥
अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिःभीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः ॥२॥
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः ॥३॥
तद्देवयक्षगन्धर्वमहोरगसमाकुलम्शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम् ॥४॥
अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम्तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे ॥५॥
शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाःमणिरत्नमयाश्चान्याः प्रासादमुपधारयन् ॥६॥
तत्र कामगमं दिव्यं सर्वरत्नविभूषितम्विमानं देवराजस्य शुशुभे खेचरं तदा ॥७॥
तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाःगन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः ॥८॥
तथा राजा वसुमना बलाक्षः सुप्रतर्दनःअष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः ॥९॥
मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलःविमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥१०॥
अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेःतथा धातुर्विधातुश्च कुबेरस्य यमस्य च ॥११॥
अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोःयथाभागं यथोद्देशं विमानानि चकाशिरे ॥१२॥
सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयःअर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः ॥१३॥
दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशःप्रससार वसन्ताग्रे वनानामिव पुष्पताम् ॥१४॥
रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम्आतपत्राणि वासांसि स्रजश्च व्यजनानि च ॥१५॥
उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिःदिव्यान्गन्धानुपादाय वायुर्योधानसेवत ॥१६॥
प्रभासितमिवाकाशं चित्ररूपमलंकृतम्संपतद्भिः स्थितैश्चैव नानारत्नावभासितैःविमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः ॥१७॥
End of chapter ॥
1
Mahabharata · Virata Parva

Adhyaya 51

0
Adhyaya 51Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0