महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · उद्योग पर्व
॥ श्रीः ॥
अध्याय 104
महाभारत · उद्योग पर्व
जनमेजय उवाच
अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम्अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ॥१॥
ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम्सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ॥२॥
कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाःसौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ॥३॥
वैशंपायन उवाच
उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम्उक्तं बहुविधं चैव नारदेनापि तच्छृणु ॥४॥
नारद उवाच
दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति ॥५॥
श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दनन कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ॥६॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ॥७॥
विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुराअभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ॥८॥
सप्तर्षीणामन्यतमं वेषमास्थाय भारतबुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह ॥९॥
विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम्परमान्नस्य यत्नेन न च स प्रत्यपालयत् ॥१०॥
अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिःअथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत् ॥११॥
भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौविश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ॥१२॥
भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत्स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ॥१३॥
तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिःगौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ॥१४॥
अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ॥१५॥
स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणातिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ॥१६॥
प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम्भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ॥१७॥
क्षत्रभावादपगतो ब्राह्मणत्वमुपागतःधर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत् ॥१८॥
विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनःशुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम्अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव ॥१९॥
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ॥२०॥
दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणिदक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम् ॥२१॥
दक्षिणानां हि सृष्टानामपवर्गेण भुज्यतेस्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यतेकिमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ॥२२॥
जानमानस्तु भगवाञ्जितः शुश्रूषणेन चविश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ॥२३॥
असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितःकिं ददानीति बहुशो गालवः प्रत्यभाषत ॥२४॥
निर्बन्धतस्तु बहुशो गालवस्य तपस्विनःकिंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ॥२५॥
एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मेहयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम् ॥२६॥
अध्याय समाप्त ॥
१

0
अध्याय 104पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0