Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
शल्य उवाच
ऋषयोऽथाब्रुवन्सर्वे देवाश्च त्रिदशेश्वराःअयं वै नहुषः श्रीमान्देवराज्येऽभिषिच्यताम्ते गत्वाथाब्रुवन्सर्वे राजा नो भव पार्थिव ॥१॥
स तानुवाच नहुषो देवानृषिगणांस्तथापितृभिः सहितान्राजन्परीप्सन्हितमात्मनः ॥२॥
दुर्बलोऽहं न मे शक्तिर्भवतां परिपालनेबलवाञ्जायते राजा बलं शक्रे हि नित्यदा ॥३॥
तमब्रुवन्पुनः सर्वे देवाः सर्षिपुरोगमाःअस्माकं तपसा युक्तः पाहि राज्यं त्रिविष्टपे ॥४॥
परस्परभयं घोरमस्माकं हि न संशयःअभिषिच्यस्व राजेन्द्र भव राजा त्रिविष्टपे ॥५॥
देवदानवयक्षाणामृषीणां रक्षसां तथापितृगन्धर्वभूतानां चक्षुर्विषयवर्तिनाम्तेज आदास्यसे पश्यन्बलवांश्च भविष्यसि ॥६॥
धर्मं पुरस्कृत्य सदा सर्वलोकाधिपो भवब्रह्मर्षींश्चापि देवांश्च गोपायस्व त्रिविष्टपे ॥७॥
सुदुर्लभं वरं लब्ध्वा प्राप्य राज्यं त्रिविष्टपेधर्मात्मा सततं भूत्वा कामात्मा समपद्यत ॥८॥
देवोद्यानेषु सर्वेषु नन्दनोपवनेषु चकैलासे हिमवत्पृष्ठे मन्दरे श्वेतपर्वतेसह्ये महेन्द्रे मलये समुद्रेषु सरित्सु च ॥९॥
अप्सरोभिः परिवृतो देवकन्यासमावृतःनहुषो देवराजः सन्क्रीडन्बहुविधं तदा ॥१०॥
शृण्वन्दिव्या बहुविधाः कथाः श्रुतिमनोहराःवादित्राणि च सर्वाणि गीतं च मधुरस्वरम् ॥११॥
विश्वावसुर्नारदश्च गन्धर्वाप्सरसां गणाःऋतवः षट्च देवेन्द्रं मूर्तिमन्त उपस्थिताःमारुतः सुरभिर्वाति मनोज्ञः सुखशीतलः ॥१२॥
एवं हि क्रीडतस्तस्य नहुषस्य महात्मनःसंप्राप्ता दर्शनं देवी शक्रस्य महिषी प्रिया ॥१३॥
स तां संदृश्य दुष्टात्मा प्राह सर्वान्सभासदःइन्द्रस्य महिषी देवी कस्मान्मां नोपतिष्ठति ॥१४॥
अहमिन्द्रोऽस्मि देवानां लोकानां च तथेश्वरःआगच्छतु शची मह्यं क्षिप्रमद्य निवेशनम् ॥१५॥
तच्छ्रुत्वा दुर्मना देवी बृहस्पतिमुवाच हरक्ष मां नहुषाद्ब्रह्मंस्तवास्मि शरणं गता ॥१६॥
सर्वलक्षणसंपन्नां ब्रह्मंस्त्वं मां प्रभाषसेदेवराजस्य दयितामत्यन्तसुखभागिनीम् ॥१७॥
अवैधव्येन संयुक्तामेकपत्नीं पतिव्रताम्उक्तवानसि मां पूर्वमृतां तां कुरु वै गिरम् ॥१८॥
नोक्तपूर्वं च भगवन्मृषा ते किंचिदीश्वरतस्मादेतद्भवेत्सत्यं त्वयोक्तं द्विजसत्तम ॥१९॥
बृहस्पतिरथोवाच इन्द्राणीं भयमोहिताम्यदुक्तासि मया देवि सत्यं तद्भविता ध्रुवम् ॥२०॥
द्रक्ष्यसे देवराजानमिन्द्रं शीघ्रमिहागतम्न भेतव्यं च नहुषात्सत्यमेतद्ब्रवीमि तेसमानयिष्ये शक्रेण नचिराद्भवतीमहम् ॥२१॥
अथ शुश्राव नहुष इन्द्राणीं शरणं गताम्बृहस्पतेरङ्गिरसश्चुक्रोध स नृपस्तदा ॥२२॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 11

0
Adhyaya 11Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0