Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
नारद उवाच
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम्विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥१॥
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुःययातिर्वत्सकाशीश इदं वचनमब्रवीत् ॥२॥
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम्निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥३॥
अतीत्य च नृपानन्यानादित्यकुलसंभवान्मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च ॥४॥
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम्अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ॥५॥
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरान तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे ॥६॥
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खगन चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ॥७॥
तत्तु दास्यामि यत्कार्यमिदं संपादयिष्यतिअभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥८॥
नातः परं वैनतेय किंचित्पापिष्ठमुच्यतेयथाशानाशनं लोके देहि नास्तीति वा वचः ॥९॥
हताशो ह्यकृतार्थः सन्हतः संभावितो नरःहिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ॥१०॥
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता ममइयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥११॥
सदा देवमनुष्याणामसुराणां च गालवकाङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥१२॥
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम्किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥१३॥
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम्अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ॥१४॥
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणापुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥१५॥
उपलब्धमिदं द्वारमश्वानामिति चाण्डजःउक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥१६॥
गते पतगराजे तु गालवः सह कन्ययाचिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥१७॥
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥१८॥
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम्प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥१९॥
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत्कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥२०॥
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम्शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ॥२१॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 113

0
Adhyaya 113Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0