महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · उद्योग पर्व
॥ श्रीः ॥
अध्याय 134
महाभारत · उद्योग पर्व
मातोवाचनैव राज्ञा दरः कार्यो जातु कस्यांचिदापदिअथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥१॥
दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यतेराष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् ॥२॥
शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनःअन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ॥३॥
य एवात्यन्तसुहृदस्त एनं पर्युपासतेअशक्तयः स्वस्तिकामा बद्धवत्सा इडा इवशोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् ॥४॥
अपि ते पूजिताः पूर्वमपि ते सुहृदो मताःये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषःमा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ॥५॥
प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तवउल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् ॥६॥
यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय ॥७॥
अस्ति नः कोशनिचयो महानविदितस्तवतमहं वेद नान्यस्तमुपसंपादयामि ते ॥८॥
सन्ति नैकशता भूयः सुहृदस्तव संजयसुखदुःखसहा वीर शतार्हा अनिवर्तिनः ॥९॥
तादृशा हि सहाया वै पुरुषस्य बुभूषतःईषदुज्जिहतः किंचित्सचिवाः शत्रुकर्शनाः ॥१०॥
पुत्र उवाच
कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसःतमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् ॥११॥
उदके धूरियं धार्या सर्तव्यं प्रवणे मयायस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी ॥१२॥
अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम्किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ॥१३॥
अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्उद्यच्छाम्येष शत्रूणां नियमाय जयाय च ॥१४॥
कुन्त्युवाचसदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैःतच्चकार तथा सर्वं यथावदनुशासनम् ॥१५॥
इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ॥१६॥
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणामहीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ॥१७॥
इदं पुंसवनं चैव वीराजननमेव चअभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ॥१८॥
विद्याशूरं तपःशूरं दमशूरं तपस्विनम्ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् ॥१९॥
अर्चिष्मन्तं बलोपेतं महाभागं महारथम्धृष्टवन्तमनाधृष्यं जेतारमपराजितम् ॥२०॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् ॥२१॥
अध्याय समाप्त ॥
१

0
अध्याय 134पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0