Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
संजय उवाच
सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य हसमागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥१॥
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो ममदुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥२॥
युधिष्ठिर उवाच
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरःयन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥३॥
संजय उवाच
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम्सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥४॥
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौभूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥५॥
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाःशृण्वतां कुरुवीराणां तन्निबोध नराधिप ॥६॥
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम्शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥७॥
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताःसंवत्सरं विराटस्य दास्यमास्थाय चोषिताः ॥८॥
अमर्षं राज्यहरणं वनवासं च पाण्डवद्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥९॥
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डवदुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥१०॥
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ॥११॥
असमागम्य भीष्मेण संयुगे किं विकत्थसेआरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥१२॥
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधिअजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥१३॥
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोःयुधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ॥१४॥
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषान हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥१५॥
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम्युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥१६॥
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम्गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥१७॥
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वारणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥१८॥
किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम्दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥१९॥
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै;रुदीच्यकाम्बोजशकैः खशैश्चशाल्वैः समत्स्यैः कुरुमध्यदेशै;र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥२०॥
नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगमवारणीयम्मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे ॥२१॥
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम्अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥२२॥
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहुपर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥२३॥
यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजयसर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥२४॥
जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम्जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि ॥२५॥
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम्मनसैव हि भूतानि धाता प्रकुरुते वशे ॥२६॥
त्रयोदश समा भुक्तं राज्यं विलपतस्तवभूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥२७॥
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितःक्व तदा भीमसेनस्य बलमासीच्च फल्गुन ॥२८॥
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात्न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ॥२९॥
सा वो दास्यं समापन्नान्मोक्षयामास भामिनीअमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ॥३०॥
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत्धृता हि वेणी पार्थेन विराटनगरे तदा ॥३१॥
सूदकर्मणि च श्रान्तं विराटस्य महानसेभीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥३२॥
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुःश्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥३३॥
न भयाद्वासुदेवस्य न चापि तव फल्गुनराज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥३४॥
न माया हीन्द्रजालं वा कुहका वा विभीषणीआत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥३५॥
वासुदेवसहस्रं वा फल्गुनानां शतानि वाआसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥३६॥
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम्प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ॥३७॥
शारद्वतमहीमानं विविंशतिझषाकुलम्बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम् ॥३८॥
दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम्जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् ॥३९॥
शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताःभविष्यसि त्वं हतसर्वबान्धव;स्तदा मनस्ते परितापमेष्यति ॥४०॥
तदा मनस्ते त्रिदिवादिवाशुचे;र्निवर्ततां पार्थ महीप्रशासनात्राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना ॥४१॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 158

0
Adhyaya 158Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0