Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
संजय उवाच
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत्आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ॥१॥
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम्प्रागेव भृशसंक्रुद्धाः कैतव्येन प्रधर्षिताः ॥२॥
नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुःआशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ॥३॥
अवाक्शिरा भीमसेनः समुदैक्षत केशवम्नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ॥४॥
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम्उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ॥५॥
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम्श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ॥६॥
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनःश्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ॥७॥
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनःसारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ॥८॥
जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान्निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ॥९॥
युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनःकरिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ॥१०॥
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम्तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ॥११॥
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम्दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् ॥१२॥
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरःन भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ॥१३॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 159

0
Adhyaya 159Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0