Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
भीष्म उवाच
द्रौपदेया महाराज सर्वे पञ्च महारथाःवैराटिरुत्तरश्चैव रथो मम महान्मतः ॥१॥
अभिमन्युर्महाराज रथयूथपयूथपःसमः पार्थेन समरे वासुदेवेन वा भवेत् ॥२॥
लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमःसंस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ॥३॥
सात्यकिर्माधवः शूरो रथयूथपयूथपःएष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ॥४॥
उत्तमौजास्तथा राजन्रथो मम महान्मतःयुधामन्युश्च विक्रान्तो रथोदारो नरर्षभः ॥५॥
एतेषां बहुसाहस्रा रथा नागा हयास्तथायोत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ॥६॥
पाण्डवैः सह राजेन्द्र तव सेनासु भारतअग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ॥७॥
अजेयौ समरे वृद्धौ विराटद्रुपदावुभौमहारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ॥८॥
वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौयतिष्येते परं शक्त्या स्थितौ वीरगते पथि ॥९॥
संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात्आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ ॥१०॥
कारणं प्राप्य तु नराः सर्व एव महाभुजाःशूरा वा कातरा वापि भवन्ति नरपुंगव ॥११॥
एकायनगतावेतौ पार्थेन दृढभक्तिकौत्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप ॥१२॥
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौसंबन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ॥१३॥
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारतप्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ॥१४॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 167

0
Adhyaya 167Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0