Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Udyoga Parva
भीष्म उवाच
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदामन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान्समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप ॥१॥
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम्वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदाअतीत्य च तमध्वानमाससाद नराधिपम् ॥२॥
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत्आगताहं महाबाहो त्वामुद्दिश्य महाद्युते ॥३॥
तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पतेत्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥४॥
गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वैनाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥५॥
त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदापरामृश्य महायुद्धे निर्जित्य पृथिवीपतीन्नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ॥६॥
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत्नारीं विदितविज्ञानः परेषां धर्ममादिशन्यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् ॥७॥
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडितामैवं वद महीपाल नैतदेवं कथंचन ॥८॥
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शनबलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ॥९॥
भजस्व मां शाल्वपते भक्तां बालामनागसम्भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥१०॥
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम्अनुज्ञाता च तेनैव तवैव गृहमागता ॥११॥
न स भीष्मो महाबाहुर्मामिच्छति विशां पतेभ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥१२॥
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृपप्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥१३॥
यथा शाल्वपते नान्यं नरं ध्यामि कथंचनत्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥१४॥
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थितासत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे ॥१५॥
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥१६॥
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम्अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः ॥१७॥
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघनाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ ॥१८॥
ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुताअब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा ॥१९॥
त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पतेतत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् ॥२०॥
एवं संभाषमाणां तु नृशंसः शाल्वराट्तदापर्यत्यजत कौरव्य करुणं परिदेवतीम् ॥२१॥
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषतबिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥२२॥
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिनानिश्चक्राम पुराद्दीना रुदती कुररी यथा ॥२३॥
End of chapter ॥
1
Mahabharata · Udyoga Parva

Adhyaya 172

0
Adhyaya 172Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0