महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · भीष्म पर्व
॥ श्रीः ॥
अध्याय 10
महाभारत · भीष्म पर्व
धृतराष्ट्र उवाच
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ॥१॥
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनःएतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय ॥२॥
संजय उवाच
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो ममगृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥३॥
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराःये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥४॥
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम्प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥५॥
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनःययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥६॥
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य चऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥७॥
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥८॥
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदमशृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥९॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपिविन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥१०॥
तेषां सहस्रशो राजन्पर्वतास्तु समीपतःअभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥११॥
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनःआर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥१२॥
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम्गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥१३॥
शतद्रुं चन्द्रभागां च यमुनां च महानदीम्दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥१४॥
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥१५॥
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम्करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ॥१६॥
गोमतीं धूतपापां च वन्दनां च महानदीम्कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥१७॥
रथस्थां शतकुम्भां च सरयूं च नरेश्वरचर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥१८॥
शतावरीं पयोष्णीं च परां भैमरथीं तथाकावेरीं चुलुकां चापि वापीं शतबलामपि ॥१९॥
निचीरां महितां चापि सुप्रयोगां नराधिपपवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥२०॥
पूर्वाभिरामां वीरां च भीमामोघवतीं तथापलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ॥२१॥
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम्पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥२२॥
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरवसदानीरामधृष्यां च कुशधारां महानदीम् ॥२३॥
शशिकान्तां शिवां चैव तथा वीरवतीमपिवास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥२४॥
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम्रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥२५॥
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम्वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥२६॥
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपिशलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥२७॥
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ॥२८॥
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम्चरक्षां महिरोहीं च तथा जम्बुनदीमपि ॥२९॥
सुनसां तमसां दासीं त्रसामन्यां वराणसीम्लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥३०॥
मानवीं वृषभां चैव महानद्यो जनाधिपसदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥३१॥
ब्रह्माणीं च महागौरीं दुर्गामपि च भारतचित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ॥३२॥
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम्शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ॥३३॥
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम्कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ॥३४॥
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिषविश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ॥३५॥
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशःइत्येताः सरितो राजन्समाख्याता यथास्मृति ॥३६॥
अत ऊर्ध्वं जनपदान्निबोध गदतो ममतत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥३७॥
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव चमत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥३८॥
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाःउत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥३९॥
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराःसौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ॥४०॥
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारतकुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ॥४१॥
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाःअश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥४२॥
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम्वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ॥४३॥
विदेहका मागधाश्च सुह्माश्च विजयास्तथाअङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ॥४४॥
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाःवाहीका वाटधानाश्च आभीराः कालतोयकाः ॥४५॥
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाःअटवीशबराश्चैव मरुभौमाश्च मारिष ॥४६॥
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथाकुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥४७॥
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव चबहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥४८॥
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिपपुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥४९॥
शका निषादा निषधास्तथैवानर्तनैरृताःदुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥५०॥
तीरग्राहास्तरतोया राजिका रस्यकागणाःतिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ॥५१॥
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथाअभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ॥५२॥
दर्वीकाः सकचा दर्वा वातजामरथोरगाःबहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥५३॥
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथावनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥५४॥
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाःकिराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ॥५५॥
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिषअथापरे जनपदा दक्षिणा भरतर्षभ ॥५६॥
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनःउन्नत्यका माहिषका विकल्पा मूषकास्तथा ॥५७॥
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाःकौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥५८॥
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाःध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः ॥५९॥
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथातथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥६०॥
मालका मल्लकाश्चैव तथैवापरवर्तकाःकुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥६१॥
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाःआदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ॥६२॥
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाःउत्तराश्चापरे म्लेच्छा जना भरतसत्तम ॥६३॥
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयःसक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥६४॥
तथैव मरधाश्चीनास्तथैव दशमालिकाःक्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥६५॥
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सहखशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥६६॥
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाःऔपकाश्च कलिङ्गाश्च किरातानां च जातयः ॥६७॥
तामरा हंसमार्गाश्च तथैव करभञ्जकाःउद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो ॥६८॥
यथागुणबलं चापि त्रिवर्गस्य महाफलम्दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥६९॥
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाःते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ॥७०॥
देवमानुषकायानां कामं भूमिः परायणम्अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥७१॥
राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम्न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥७२॥
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाःसाम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥७३॥
पिता माता च पुत्रश्च खं द्यौश्च नरपुंगवभूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ॥७४॥
अध्याय समाप्त ॥
१

0
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0