Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैःआजघान रणे पार्थान्सहसेनान्समन्ततः ॥१॥
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैःनकुलं च त्रिभिर्बाणैः सहदेवं च सप्तभिः ॥२॥
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्धृष्टद्युम्नं ततो विद्ध्वा विननाद महाबलः ॥३॥
तं द्वादशार्धैर्नकुलो माधवश्च त्रिभिः शरैःधृष्टद्युम्नश्च सप्तत्या भीमसेनश्च पञ्चभिःयुधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम् ॥४॥
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यतएकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः ॥५॥
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैःतोत्त्रैरिव महानागं द्रोणं ब्राह्मणपुंगवम् ॥६॥
सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाःअभीषाहाः शूरसेनाः शिबयोऽथ वसातयःसंग्रामे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः ॥७॥
तथैवान्ये वध्यमानाः पाण्डवेयैर्महात्मभिःपाण्डवानभ्यवर्तन्त विविधायुधपाणयःतथैव पाण्डवा राजन्परिवव्रुः पितामहम् ॥८॥
स समन्तात्परिवृतो रथौघैरपराजितःगहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान् ॥९॥
रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनःशरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान् ॥१०॥
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैःकर्णिनालीकनाराचैश्छादयामास तद्बलम् ॥११॥
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैःमुण्डतालवनानीव चकार स रथव्रजान् ॥१२॥
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगेअकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः ॥१३॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेःनिशम्य सर्वभूतानि समकम्पन्त भारत ॥१४॥
अमोघा ह्यपतन्बाणाः पितुस्ते भरतर्षभनासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः ॥१५॥
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैःअपश्याम महाराज ह्रियमाणान्रणाजिरे ॥१६॥
चेदिकाशिकरूषाणां सहस्राणि चतुर्दशमहारथाः समाख्याताः कुलपुत्रास्तनुत्यजःअपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः ॥१७॥
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्निमग्नाः परलोकाय सवाजिरथकुञ्जराः ॥१८॥
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च सर्वशःअपश्याम रथान्राजञ्शतशोऽथ सहस्रशः ॥१९॥
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैःशरैः सुकवचैश्छिन्नैः पट्टिशैश्च विशां पते ॥२०॥
गदाभिर्मुसलैश्चैव निस्त्रिंशैश्च शिलीमुखैःअनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष ॥२१॥
बाहुभिः कार्मुकैः खड्गैः शिरोभिश्च सकुण्डलैःतलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैःचापैश्च बहुधा छिन्नैः समास्तीर्यत मेदिनी ॥२२॥
हतारोहा गजा राजन्हयाश्च हतसादिनःपरिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः ॥२३॥
यतमानाश्च ते वीरा द्रवमाणान्महारथान्नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान् ॥२४॥
महेन्द्रसमवीर्येण वध्यमाना महाचमूःअभज्यत महाराज न च द्वौ सह धावतः ॥२५॥
आविद्धरथनागाश्वं पतितध्वजकूबरम्अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम् ॥२६॥
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथाप्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः ॥२७॥
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाःप्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत ॥२८॥
तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथकुञ्जरम्ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा ॥२९॥
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनःउवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम् ॥३०॥
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तवप्रहरास्मै नरव्याघ्र न चेन्मोहात्प्रमुह्यसे ॥३१॥
यत्पुरा कथितं वीर त्वया राज्ञां समागमेविराटनगरे पार्थ संजयस्य समीपतः ॥३२॥
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे ॥३३॥
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदमक्षत्रधर्ममनुस्मृत्य युध्यस्व भरतर्षभ ॥३४॥
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखःअकाम इव बीभत्सुरिदं वचनमब्रवीत् ॥३५॥
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम्दुःखानि वनवासे वा किं नु मे सुकृतं भवेत् ॥३६॥
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तवपातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम् ॥३७॥
ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवःयतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव ॥३८॥
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे ॥३९॥
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुःधनंजयरथं शीघ्रं शरवर्षैरवाकिरत् ॥४०॥
क्षणेन स रथस्तस्य सहयः सहसारथिःशरवर्षेण महता न प्राज्ञायत किंचन ॥४१॥
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सात्वतःचोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः ॥४२॥
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम्पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः ॥४३॥
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुःनिमेषान्तरमात्रेण सज्यं चक्रे पिता तव ॥४४॥
विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम्अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः ॥४५॥
तस्य तत्पूजयामास लाघवं शंतनोः सुतःसाधु पार्थ महाबाहो साधु कुन्तीसुतेति च ॥४६॥
समाभाष्यैनमपरं प्रगृह्य रुचिरं धनुःमुमोच समरे भीष्मः शरान्पार्थरथं प्रति ॥४७॥
अदर्शयद्वासुदेवो हययाने परं बलम्मोघान्कुर्वञ्शरांस्तस्य मण्डलानि विदर्शयन् ॥४८॥
शुशुभाते नरव्याघ्रौ भीष्मपार्थौ शरक्षतौगोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ ॥४९॥
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम्भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि ॥५०॥
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोःवरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान् ॥५१॥
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बलेनामृष्यत महाबाहुर्माधवः परवीरहा ॥५२॥
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिषक्रुद्धो नाम महायोगी प्रचस्कन्द महारथात्अभिदुद्राव भीष्मं स भुजप्रहरणो बली ॥५३॥
प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुःदारयन्निव पद्भ्यां स जगतीं जगतीश्वरः ॥५४॥
क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिःग्रसन्निव च चेतांसि तावकानां महाहवे ॥५५॥
दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यन्तमाहवेहतो भीष्मो हतो भीष्म इति तत्र स्म सैनिकाःक्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयान्नराः ॥५६॥
पीतकौशेयसंवीतो मणिश्यामो जनार्दनःशुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः ॥५७॥
स सिंह इव मातङ्गं यूथर्षभ इवर्षभम्अभिदुद्राव तेजस्वी विनदन्यादवर्षभः ॥५८॥
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवेअसंभ्रमं रणे भीष्मो विचकर्ष महद्धनुःउवाच चैनं गोविन्दमसंभ्रान्तेन चेतसा ॥५९॥
एह्येहि पुण्डरीकाक्ष देवदेव नमोऽस्तु तेमामद्य सात्वतश्रेष्ठ पातयस्व महाहवे ॥६०॥
त्वया हि देव संग्रामे हतस्यापि ममानघश्रेय एव परं कृष्ण लोकेऽमुष्मिन्निहैव चसंभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे ॥६१॥
अन्वगेव ततः पार्थस्तमनुद्रुत्य केशवम्निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै ॥६२॥
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनःजगाम चैनमादाय वेगेन पुरुषोत्तमः ॥६३॥
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहानिजघ्राह हृषीकेशं कथंचिद्दशमे पदे ॥६४॥
तत एनमुवाचार्तः क्रोधपर्याकुलेक्षणम्निःश्वसन्तं यथा नागमर्जुनः परवीरहा ॥६५॥
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसियत्त्वया कथितं पूर्वं न योत्स्यामीति केशव ॥६६॥
मिथ्यावादीति लोकस्त्वां कथयिष्यति माधवममैष भारः सर्वो हि हनिष्यामि यतव्रतम् ॥६७॥
शपे माधव सख्येन सत्येन सुकृतेन चअन्तं यथा गमिष्यामि शत्रूणां शत्रुकर्शन ॥६८॥
अद्यैव पश्य दुर्धर्षं पात्यमानं महाव्रतम्तारापतिमिवापूर्णमन्तकाले यदृच्छया ॥६९॥
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनःनकिंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः ॥७०॥
तौ रथस्थौ नरव्याघ्रौ भीष्मः शांतनवः पुनःववर्ष शरवर्षेण मेघो वृष्ट्या यथाचलौ ॥७१॥
प्राणांश्चादत्त योधानां पिता देवव्रतस्तवगभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये ॥७२॥
यथा कुरूणां सैन्यानि बभञ्ज युधि पाण्डवःतथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता ॥७३॥
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसःनिरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणेमध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा ॥७४॥
ते वध्यमाना भीष्मेण कालेनेव युगक्षयेवीक्षां चक्रुर्महाराज पाण्डवा भयपीडिताः ॥७५॥
त्रातारं नाध्यगच्छन्त गावः पङ्कगता इवपिपीलिका इव क्षुण्णा दुर्बला बलिना रणे ॥७६॥
महारथं भारत दुष्प्रधर्षं; शरौघिणं प्रतपन्तं नरेन्द्रान्भीष्मं न शेकुः प्रतिवीक्षितुं ते; शरार्चिषं सूर्यमिवातपन्तम् ॥७७॥
विमृद्नतस्तस्य तु पाण्डुसेना;मस्तं जगामाथ सहस्ररश्मिःततो बलानां श्रमकर्शितानां; मनोऽवहारं प्रति संबभूव ॥७८॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 102

0
Adhyaya 102Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0