Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथायथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे ॥१॥
घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरःसुरोदः सागरश्चैव तथान्यो घर्मसागरः ॥२॥
परस्परेण द्विगुणाः सर्वे द्वीपा नराधिपसर्वतश्च महाराज पर्वतैः परिवारिताः ॥३॥
गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान्पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप ॥४॥
तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवःप्रजापतिमुपासीनः प्रजानां विदधे सुखम् ॥५॥
कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य हसंपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप ॥६॥
क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरःसंपूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥७॥
गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान्यत्र नित्यं निवसति श्रीमान्कमललोचनःमोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ॥८॥
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितःसुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ॥९॥
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिःचतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥१०॥
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाःतेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः ॥११॥
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम् ॥१२॥
धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः ॥१३॥
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वरविहरन्ति रमन्ते च न तेषु म्रियते जनः ॥१४॥
न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृपगौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ॥१५॥
अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वरयथाश्रुतं महाराज तदव्यग्रमनाः शृणु ॥१६॥
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिःक्रौञ्चात्परो वामनको वामनादन्धकारकः ॥१७॥
अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमःमैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः ॥१८॥
गोविन्दात्तु परो राजन्निबिडो नाम पर्वतःपरस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ॥१९॥
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणुक्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥२०॥
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वहउष्णात्परः प्रावरकः प्रावरादन्धकारकः ॥२१॥
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतःमुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥२२॥
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिपएते देशा महाराज देवगन्धर्वसेविताः ॥२३॥
पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान्तत्र नित्यं निवसति स्वयं देवः प्रजापतिः ॥२४॥
तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिःवाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ॥२५॥
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युतद्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन ॥२६॥
विप्राणां ब्रह्मचर्येण सत्येन च दमेन चआरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः ॥२७॥
एको जनपदो राजन्द्वीपेष्वेतेषु भारतउक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥२८॥
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिःद्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥२९॥
स राजा स शिवो राजन्स पिता स पितामहःगोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥३०॥
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्सिद्धमेव महाराज भुञ्जते तत्र नित्यदा ॥३१॥
ततः परं समा नाम दृश्यते लोकसंस्थितिःचतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥३२॥
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताःदिग्गजा भरतश्रेष्ठ वामनैरावतादयःसुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः ॥३३॥
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहेअसंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ॥३४॥
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव चअसंबाधा महाराज तान्निगृह्णन्ति ते गजाः ॥३५॥
पुष्करैः पद्मसंकाशैर्वर्ष्मवद्भिर्महाप्रभैःते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः ॥३६॥
श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताःआगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥३७॥
धृतराष्ट्र उवाच
परो वै विस्तरोऽत्यर्थं त्वया संजय कीर्तितःदर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय ॥३८॥
संजय उवाच
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतःस्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः ॥३९॥
परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहःयोजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥४०॥
परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघषष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥४१॥
चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतःविष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम्एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः ॥४२॥
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दनविष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम् ॥४३॥
अष्टपञ्चाशतं राजन्विपुलत्वेन चानघश्रूयते परमोदारः पतंगोऽसौ विभावसुःएतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ॥४४॥
स राहुश्छादयत्येतौ यथाकालं महत्तयाचन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः ॥४५॥
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषासर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ॥४६॥
यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत्तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ॥४७॥
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतःआयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते ॥४८॥
यः शृणोति महीपाल पर्वणीदं यतव्रतःप्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥४९॥
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि ॥५०॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 13

0
Adhyaya 13Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0