Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
वैशंपायन उवाच
अथ गावल्गणिर्धीमान्समरादेत्य संजयःप्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥१॥
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितःआचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥२॥
संजयोऽहं महाराज नमस्ते भरतर्षभहतो भीष्मः शांतनवो भरतानां पितामहः ॥३॥
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥४॥
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥५॥
यः सर्वान्पृथिवीपालान्समवेतान्महामृधेजिगायैकरथेनैव काशिपुर्यां महारथः ॥६॥
जामदग्न्यं रणे राममायोध्य वसुसंभवःन हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥७॥
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिवसमुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥८॥
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदःनरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥९॥
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवेप्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥१०॥
परिरक्ष्य स सेनां ते दशरात्रमनीकहाजगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥११॥
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशःजघान युधि योधानामर्बुदं दशभिर्दिनैः ॥१२॥
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमःतव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥१३॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 14

0
Adhyaya 14Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0