Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगेरथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥१॥
अथैनं रथवृन्देन कोष्टकीकृत्य भारतशरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥२॥
शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सहप्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपिचिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति ॥३॥
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ॥४॥
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्देवदानवगन्धर्वाः पिशाचोरगराक्षसाःसाधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥५॥
सात्यकिं चाभिमन्युं च महत्या सेनया सहगान्धाराः समरे शूरा रुरुधुः सहसौबलाः ॥६॥
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम्तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥७॥
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभयेअभिमन्यो रथं तूर्णमारुरोह परंतपः ॥८॥
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम्व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः ॥९॥
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥१०॥
ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौमिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥११॥
तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥१२॥
कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौदुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत् ॥१३॥
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्अतीत्य पितरं युद्धे यदयुध्यत भारत ॥१४॥
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥१५॥
ततो दुर्योधनो राजा प्रहारवरमोहितःनिषसाद रथोपस्थे कश्मलं च जगाम ह ॥१६॥
तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिःअपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत ॥१७॥
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततःनिघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥१८॥
पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवःद्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतःजघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः ॥१९॥
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगेनाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ॥२०॥
वार्यमाणं हि भीष्मेण द्रोणेन च विशां पतेविद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः ॥२१॥
ततो रथसहस्रेषु विद्रवत्सु ततस्ततःतावास्थितावेकरथं सौभद्रशिनिपुंगवौसौबलीं समरे सेनां शातयेतां समन्ततः ॥२२॥
शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौअमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥२३॥
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पतेववर्ष शरवर्षेण धाराभिरिव तोयदः ॥२४॥
वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगेदुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥२५॥
द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौन्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥२६॥
ततो दुर्योधनो राजा समाश्वस्य विशां पतेन्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः ॥२७॥
यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारततत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः ॥२८॥
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाःअन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे ॥२९॥
पुनरावर्ततां तेषां वेग आसीद्विशां पतेपूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥३०॥
संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनःअब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः ॥३१॥
पितामह निबोधेदं यत्त्वा वक्ष्यामि भारतनानुरूपमहं मन्ये त्वयि जीवति कौरव ॥३२॥
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जनेकृपे चैव महेष्वासे द्रवतीयं वरूथिनी ॥३३॥
न पाण्डवाः प्रतिबलास्तव राजन्कथंचनतथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च ॥३४॥
अनुग्राह्याः पाण्डुसुता नूनं तव पितामहयथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥३५॥
सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमेन योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी ॥३६॥
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य चकर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥३७॥
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगेविक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥३८॥
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुःअब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥३९॥
बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचःअजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥४०॥
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तमकरिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः ॥४१॥
अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिःमिषतो वारयिष्यामि सर्वलोकस्य पश्यतः ॥४२॥
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वरदध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम् ॥४३॥
पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत्दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन् ॥४४॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 54

0
Adhyaya 54Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0