Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिषपुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ॥१॥
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाःपञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥२॥
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमेबभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥३॥
तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ॥४॥
पीडयानं च तत्सैन्यं पौत्रं तव विशां पतेदृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥५॥
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥६॥
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥७॥
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिःध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ॥८॥
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिनाशितेनोरगसंकाशां पत्रिणा विजहार ताम् ॥९॥
शल्यस्य च महाघोरानस्यतः शतशः शरान्निवार्यार्जुनदायादो जघान समरे हयान् ॥१०॥
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलःनाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ॥११॥
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैःपञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥१२॥
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधिसहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥१३॥
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ॥१४॥
स वारणरथौघानां सहस्रैर्बहुभिर्वृतःवाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥१५॥
धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम्ययौ तन्मद्रकानीकं केकयांश्च परंतपः ॥१६॥
तेन कीर्तिमता गुप्तमनीकं दृढधन्वनाप्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ॥१७॥
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दनत्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ॥१८॥
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैःहृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ॥१९॥
दमनं चापि दायादं पौरवस्य महात्मनःजघान विपुलाग्रेण नाराचेन परंतपः ॥२०॥
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥२१॥
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥२२॥
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत्अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥२३॥
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभपुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥२४॥
स संगृह्य महाघोरं निस्त्रिंशवरमायसम्पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ॥२५॥
तं महौघमिवायान्तं खात्पतन्तमिवोरगम्भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥२६॥
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम्अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥२७॥
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतःशितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥२८॥
बाणवेगमतीतस्य रथाभ्याशमुपेयुषःत्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥२९॥
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम्हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥३०॥
तं निहत्य गदाग्रेण लेभे स परमं यशःपुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥३१॥
तस्मिन्हते महेष्वासे राजपुत्रे महारथेहाहाकारो महानासीत्तव सैन्यस्य मारिष ॥३२॥
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम्अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥३३॥
तौ तत्र समरे वीरौ समेतौ रथिनां वरौददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥३४॥
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहाआजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥३५॥
तथैव पार्षतं शूरं शल्यः समितिशोभनःआजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥३६॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 57

0
Adhyaya 57Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0