Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तवभीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥१॥
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥२॥
तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम्आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥३॥
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ॥४॥
तं भीमसेनः समरे महोदधिमिवापरम्सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥५॥
तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम्भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥६॥
उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्असंभ्रमं भीमसेनो गदया समताडयत् ॥७॥
स संवार्य बलौघांस्तान्गदया रथिनां वरःअतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥८॥
तस्मिन्सुतुमुले घोरे काले परमदारुणेभ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥९॥
द्रौपदेयाभिमन्युश्च शिखण्डी च महारथःन प्राजहन्भीमसेनं भये जाते महाबलम् ॥१०॥
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकःपोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥११॥
व्यचरत्समरे भीमो युगान्ते पावको यथाविनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ॥१२॥
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवःप्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ॥१३॥
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनःसादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ॥१४॥
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिःरणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ॥१५॥
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम्ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥१६॥
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनःबभौ रूपं महाघोरं कालस्येव युगक्षये ॥१७॥
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनःदृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥१८॥
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवःतेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥१९॥
प्रदारयन्तं सैन्यानि बलौघेनापराजितम्ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥२०॥
तं तथा भीमकर्माणं प्रगृहीतमहागदम्दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥२१॥
महता मेघघोषेण रथेनादित्यवर्चसाछादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥२२॥
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम्भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ॥२३॥
तस्मिन्क्षणे सात्यकिः सत्यसंधः; शिनिप्रवीरोऽभ्यपतत्पितामहम्निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम् ॥२४॥
तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेननाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः ॥२५॥
अविध्यदेनं निशितैः शराग्रै;रलम्बुसो राजवरार्श्यशृङ्गिःतं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन ॥२६॥
अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम्प्रावर्तयन्तं कुरुपुंगवांश्च; पुनः पुनश्च प्रणदन्तमाजौ ॥२७॥
नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम्न तत्र कश्चिन्नविषण्ण आसी;दृते राजन्सोमदत्तस्य पुत्रात् ॥२८॥
स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिःदृष्ट्वा रथान्स्वान्व्यपनीयमाना;न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥२९॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 59

0
Adhyaya 59Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0