Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
अथ शूरा महाराज परस्परकृतागसःजग्मुः स्वशिबिराण्येव रुधिरेण समुक्षिताः ॥१॥
विश्रम्य च यथान्यायं पूजयित्वा परस्परम्संनद्धाः समदृश्यन्त भूयो युद्धचिकीर्षया ॥२॥
ततस्तव सुतो राजंश्चिन्तयाभिपरिप्लुतःविस्रवच्छोणिताक्ताङ्गः पप्रच्छेदं पितामहम् ॥३॥
सैन्यानि रौद्राणि भयानकानि; व्यूढानि सम्यग्बहुलध्वजानिविदार्य हत्वा च निपीड्य शूरा;स्ते पाण्डवानां त्वरिता रथौघाः ॥४॥
संमोह्य सर्वान्युधि कीर्तिमन्तो; व्यूहं च तं मकरं वज्रकल्पम्प्रविश्य भीमेन निबर्हितोऽस्मि; घोरैः शरैर्मृत्युदण्डप्रकाशैः ॥५॥
क्रुद्धं तमुद्वीक्ष्य भयेन राज;न्संमूर्छितो नालभं शान्तिमद्यइच्छे प्रसादात्तव सत्यसंध; प्राप्तुं जयं पाण्डवेयांश्च हन्तुम् ॥६॥
तेनैवमुक्तः प्रहसन्महात्मा; दुर्योधनं जातमन्युं विदित्वातं प्रत्युवाचाविमना मनस्वी; गङ्गासुतः शस्त्रभृतां वरिष्ठः ॥७॥
परेण यत्नेन विगाह्य सेनां; सर्वात्मनाहं तव राजपुत्रइच्छामि दातुं विजयं सुखं च; न चात्मानं छादयेऽहं त्वदर्थे ॥८॥
एते तु रौद्रा बहवो महारथा; यशस्विनः शूरतमाः कृतास्त्राःये पाण्डवानां समरे सहाया; जितक्लमाः क्रोधविषं वमन्ति ॥९॥
ते नेह शक्याः सहसा विजेतुं; वीर्योन्नद्धाः कृतवैरास्त्वया चअहं ह्येतान्प्रतियोत्स्यामि राज;न्सर्वात्मना जीवितं त्यज्य वीर ॥१०॥
रणे तवार्थाय महानुभाव; न जीवितं रक्ष्यतमं ममाद्यसर्वांस्तवार्थाय सदेवदैत्याँ;ल्लोकान्दहेयं किमु शत्रूंस्तवेह ॥११॥
तत्पाण्डवान्योधयिष्यामि राज;न्प्रियं च ते सर्वमहं करिष्येश्रुत्वैव चैतत्परमप्रतीतो; दुर्योधनः प्रीतमना बभूव ॥१२॥
सर्वाणि सैन्यानि ततः प्रहृष्टो; निर्गच्छतेत्याह नृपांश्च सर्वान्तदाज्ञया तानि विनिर्ययुर्द्रुतं; रथाश्वपादातगजायुतानि ॥१३॥
प्रहर्षयुक्तानि तु तानि राज;न्महान्ति नानाविधशस्त्रवन्तिस्थितानि नागाश्वपदातिमन्ति; विरेजुराजौ तव राजन्बलानि ॥१४॥
वृन्दैः स्थिताश्चापि सुसंप्रयुक्ता;श्चकाशिरे दन्तिगणाः समन्तात्शस्त्रास्त्रविद्भिर्नरदेव योधै;रधिष्ठिताः सैन्यगणास्त्वदीयाः ॥१५॥
रथैश्च पादातगजाश्वसंघैः; प्रयाद्भिराजौ विधिवत्प्रणुन्नैःसमुद्धतं वै तरुणार्कवर्णं; रजो बभौ छादयत्सूर्यरश्मीन् ॥१६॥
रेजुः पताका रथदन्तिसंस्था; वातेरिता भ्राम्यमाणाः समन्तात्नानारङ्गाः समरे तत्र राज;न्मेघैर्युक्ता विद्युतः खे यथैव ॥१७॥
धनूंषि विस्फारयतां नृपाणां; बभूव शब्दस्तुमुलोऽतिघोरःविमथ्यतो देवमहासुरौघै;र्यथार्णवस्यादियुगे तदानीम् ॥१८॥
तदुग्रनादं बहुरूपवर्णं; तवात्मजानां समुदीर्णमेवम्बभूव सैन्यं रिपुसैन्यहन्तृ; युगान्तमेघौघनिभं तदानीम् ॥१९॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 76

0
Adhyaya 76Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0