Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Bhishma Parva
संजय उवाच
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥१॥
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम्महता शरवर्षेण पाण्डवं समवाकिरत् ॥२॥
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम्भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः ॥३॥
तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथःसंदधे निशितं बाणं गिरीणामपि दारणम्तेनोरसि महाबाहुर्भीमसेनमताडयत् ॥४॥
स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम् ॥५॥
तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचःक्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः ॥६॥
अभिमन्युमुखाश्चैव पाण्डवानां महारथाःसमभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः ॥७॥
संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान्भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् ॥८॥
क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षतसंशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे ॥९॥
एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाःभीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः ॥१०॥
नानाविधानि शस्त्राणि विसृजन्तो जये रताःनदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम् ॥११॥
तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाःतावकाः समवर्तन्त पाण्डवानामनीकिनीम् ॥१२॥
कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिःचित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलःआवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन् ॥१३॥
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरेपाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः ॥१४॥
एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम्भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत् ॥१५॥
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्पर्वतं वारिधाराभिः शरदीव बलाहकः ॥१६॥
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैःत्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः ॥१७॥
स गाढविद्धो व्यथितो वयोवृद्धश्च भारतप्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत् ॥१८॥
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ ॥१९॥
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौभीमसेनो महाबाहुर्गदामादाय सत्वरः ॥२०॥
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलःसमुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे ॥२१॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम् ॥२२॥
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौअभ्यधावत वेगेन त्वरमाणो वृकोदरः ॥२३॥
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम्समभ्यधावंस्त्वरिताः कौरवाणां महारथाः ॥२४॥
भारद्वाजमुखाः सर्वे भीमसेनजिघांसयानानाविधानि शस्त्राणि भीमस्योरस्यपातयन्सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः ॥२५॥
तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्अभिमन्युप्रभृतयः पाण्डवानां महारथाःअभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥२६॥
अनूपाधिपतिः शूरो भीमस्य दयितः सखानीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात्स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः ॥२७॥
स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणायथा शक्रो महाराज पुरा विव्याध दानवम् ॥२८॥
विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा ॥२९॥
तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणासंजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः ॥३०॥
स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्दध्रे नीलविनाशाय मतिं मतिमतां वरः ॥३१॥
ततः संधाय विमलान्भल्लान्कर्मारपायितान्जघान चतुरो वाहान्पातयामास च ध्वजम् ॥३२॥
सप्तमेन च भल्लेन नीलं विव्याध वक्षसिस गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३३॥
मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम्घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः ॥३४॥
अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः ॥३५॥
तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम्अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन् ॥३६॥
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः ॥३७॥
विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैःअक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः ॥३८॥
प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम्मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः ॥३९॥
ततस्ते तावकाः सर्वे मायया विमुखीकृताःअन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतलेविचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान् ॥४०॥
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव चप्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः ॥४१॥
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताःहयाश्च सहयारोहा विनिकृत्ताः सहस्रशः ॥४२॥
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रतिमम प्राक्रोशतो राजंस्तथा देवव्रतस्य च ॥४३॥
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणेघटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताःनैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः ॥४४॥
तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाःघटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरेशङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम् ॥४५॥
एवं तव बलं सर्वं हैडिम्बेन दुरात्मनासूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः ॥४६॥
End of chapter ॥
1
Mahabharata · Bhishma Parva

Adhyaya 90

0
Adhyaya 90Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0