Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥१॥
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदाभीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात् ॥२॥
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निवपुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥३॥
अवहासं तु तं पार्थो नामृष्यत वृकोदरःततो विव्याध राधेयं शतेन नतपर्वणाम् ॥४॥
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैःधनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥५॥
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाःइषुभिश्छादयामास भीमसेनं समन्ततः ॥६॥
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥७॥
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभःतत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥८॥
अवारोहद्रथात्तस्मादथ कर्णो महारथःगदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ॥९॥
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरःशरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥१०॥
ततो बाणसहस्राणि प्रेषयामास पाण्डवःसूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥११॥
तानिषूनिषुभिः कर्णो वारयित्वा महामृधेकवचं भीमसेनस्य पातयामास सायकैः ॥१२॥
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ॥१३॥
ततो भीमो महाराज नवभिर्नतपर्वणाम्रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥१४॥
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥१५॥
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम्भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत्त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥१६॥
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम्अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ॥१७॥
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनःचित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥१८॥
आगच्छतस्तान्सहसा भीमो राजन्महारथःसाश्वसूतध्वजान्यत्तान्पातयामास संयुगेते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥१९॥
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥२०॥
रथमन्यं समास्थाय विधिवत्कल्पितं पुनःअभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥२१॥
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैःव्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥२२॥
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैःव्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥२३॥
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौशोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥२४॥
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौविवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥२५॥
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥२६॥
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुःतुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥२७॥
प्रच्छादयन्तौ समरे शरजालैः परस्परम्रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥२८॥
तौ रथाभ्यां महाराज मण्डलावर्तनादिषुव्यरोचेतां महात्मानौ वृत्रवज्रधराविव ॥२९॥
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुःव्यरोचत रणे भीमः सविद्युदिव तोयदः ॥३०॥
स चापघोषस्तनितः शरधाराम्बुदो महान्भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥३१॥
ततः शरसहस्रेण धनुर्मुक्तेन भारतपाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥३२॥
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम्सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥३३॥
स नन्दयन्रणे पार्थं केशवं च यशस्विनम्सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥३४॥
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनःपुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥३५॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 111

0
Adhyaya 111Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0