Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
तदुदीर्णगजाश्वौघं बलं तव जनाधिपपाण्डुसेनामभिद्रुत्य योधयामास सर्वतः ॥१॥
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम्यमराष्ट्राय महते परलोकाय दीक्षिताः ॥२॥
शूराः शूरैः समागम्य शरतोमरशक्तिभिःविव्यधुः समरे तूर्णं निन्युश्चैव यमक्षयम् ॥३॥
रथिनां रथिभिः सार्धं रुधिरस्रावि दारुणम्प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥४॥
वारणाश्च महाराज समासाद्य परस्परम्विषाणैर्दारयामासुः संक्रुद्धाश्च मदोत्कटाः ॥५॥
हयारोहान्हयारोहाः प्रासशक्तिपरश्वधैःबिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥६॥
पत्तयश्च महाबाहो शतशः शस्त्रपाणयःअन्योन्यमार्दयन्राजन्नित्ययत्ताः पराक्रमे ॥७॥
गोत्राणां नामधेयानां कुलानां चैव मारिषश्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥८॥
अन्योन्यं समरे योधाः शरशक्तिपरश्वधैःप्रेषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥९॥
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशःन भ्राजन्त यथापूर्वं भास्करेऽस्तं गतेऽपि च ॥१०॥
तथा प्रयुध्यमानेषु पाण्डवेयेषु निर्भयःदुर्योधनो महाराज व्यवगाहत तद्बलम् ॥११॥
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितःमर्तव्यमिति संचिन्त्य प्राविशत्तु द्विषद्बलम् ॥१२॥
नादयन्रथघोषेण कम्पयन्निव मेदिनीम्अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥१३॥
स संनिपातस्तुमुलस्तस्य तेषां च भारतअभवत्सर्वसैन्यानामभावकरणो महान् ॥१४॥
मध्यंदिनगतं सूर्यं प्रतपन्तं गभस्तिभिःतथा तव सुतं मध्ये प्रतपन्तं शरोर्मिभिः ॥१५॥
न शेकुर्भारतं युद्धे पाण्डवाः समवेक्षितुम्पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥१६॥
पर्यधावन्त पाञ्चाला वध्यमाना महात्मनारुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विनाअर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥१७॥
न तादृशं रणे कर्म कृतवन्तस्तु तावकाःयादृशं कृतवान्राजा पुत्रस्तव विशां पते ॥१८॥
पुत्रेण तव सा सेना पाण्डवी मथिता रणेनलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥१९॥
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनीबभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥२०॥
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारतभीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥२१॥
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिःविराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥२२॥
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिःकेकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥२३॥
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिःघटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥२४॥
शतशश्चापरान्योधान्सद्विपाश्वरथान्रणेशरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥२५॥
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुःभल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥२६॥
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैःमर्माणि भित्त्वा ते सर्वे संभग्नाः क्षितिमाविशन् ॥२७॥
ततः प्रमुदिता योधाः परिवव्रुर्युधिष्ठिरम्वृत्रहत्यै यथा देवाः परिवव्रुः पुरंदरम् ॥२८॥
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिषशरं परमदुर्वारं प्रेषयामास संयुगेस तेन भृशसंविद्धो निषसाद रथोत्तमे ॥२९॥
ततः पाञ्चालसैन्यानां भृशमासीद्रवो महान्हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥३०॥
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिषअथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥३१॥
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम्तिष्ठ तिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥३२॥
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला राजगृद्धिनःतान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्चण्डवातोद्धतान्मेघान्निघ्नन्रश्मिमुचो यथा ॥३३॥
ततो राजन्महानासीत्संग्रामो भूरिवर्धनःतावकानां परेषां च समेतानां युयुत्सया ॥३४॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 128

0
Adhyaya 128Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0