Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पतेसर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ॥१॥
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान्अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया ॥२॥
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथाद्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥३॥
तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताःयथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे ॥४॥
कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत्द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम् ॥५॥
शैनेयं शरवर्षाणि विकिरन्तं समन्ततःअभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि ॥६॥
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥७॥
भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत् ॥८॥
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्शकुनिः सौबलो राजन्वारयामास सत्वरः ॥९॥
शिखण्डिनमथायान्तं रथेन रथिनां वरम्कृपो शारद्वतो राजन्वारयामास संयुगे ॥१०॥
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैःदुःशासनो महाराज यत्तो यत्तमवारयत् ॥११॥
भैमसेनिमथायान्तं मायाशतविशारदम्अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत् ॥१२॥
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥१३॥
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रतिमद्रराजः सुसंक्रुद्धो वारयामास भारत ॥१४॥
शतानीकमथायान्तं नाकुलिं रभसं रणेचित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया ॥१५॥
अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत् ॥१६॥
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणेधृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥१७॥
तथान्यान्पाण्डुपुत्राणां समायातान्महारथान्तावका रथिनो राजन्वारयामासुरोजसा ॥१८॥
गजारोहा गजैस्तूर्णं संनिपत्य महामृधेयोधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥१९॥
निशीथे तुरगा राजन्नाद्रवन्तः परस्परम्समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः ॥२०॥
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयःसमागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥२१॥
नरास्तु बहवस्तत्र समाजग्मुः परस्परम्गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः ॥२२॥
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम् ॥२३॥
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैःपुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत् ॥२४॥
कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिषधनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥२५॥
अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरःहार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥२६॥
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिषप्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥२७॥
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य चप्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान् ॥२८॥
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः ॥२९॥
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥३०॥
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ॥३१॥
सा हेमचित्रा महती पाण्डवेन प्रवेरितानिर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥३२॥
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुःहार्दिक्यं छादयामास शरैः संनतपर्वभिः ॥३३॥
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथीव्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥३४॥
ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददेतदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥३५॥
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥३६॥
तमापतन्तं सहसा धर्मराजभुजच्युतम्द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ॥३७॥
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥३८॥
हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनःव्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ॥३९॥
स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितःअपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥४०॥
कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम्पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः ॥४१॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 140

0
Adhyaya 140Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0