Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधेअलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥१॥
महत्या सेनया युक्तः सुयोधनमुपागमत्राक्षसानां विरूपाणां सहस्रैः परिवारितःनानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥२॥
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतःकिर्मीरश्च महातेजा हिडिम्बश्च सखा तथा ॥३॥
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन्विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥४॥
स मत्त इव मातङ्गः संक्रुद्ध इव चोरगःदुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ॥५॥
विदितं ते महाराज यथा भीमेन राक्षसाःहिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥६॥
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुराकिमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥७॥
तमहं सगणं राजन्सवाजिरथकुञ्जरम्हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥८॥
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान्हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सहनिवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥९॥
तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदाप्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥१०॥
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान्न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥११॥
एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवःअभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः ॥१२॥
दीप्यमानेन वपुषा रथेनादित्यवर्चसातादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥१३॥
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितःऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ॥१४॥
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाःशतं युक्ता महाकाया मांसशोणितभोजनाः ॥१५॥
तस्यापि रथनिर्घोषो महामेघरवोपमःतस्यापि सुमहच्चापं दृढज्यं बलवत्तरम् ॥१६॥
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताःसोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥१७॥
तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यःस चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः ॥१८॥
दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गःगदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा ॥१९॥
रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम्रराज संख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे ॥२०॥
ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्चहर्षान्विता युयुधुस्तत्र राज;न्समन्ततः पाण्डवयोधवीराः ॥२१॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 151

0
Adhyaya 151Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0