Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
धृतराष्ट्र उवाच
कर्णदुर्योधनादीनां शकुनेः सौबलस्य चअपनीतं महत्तात तव चैव विशेषतः ॥१॥
यदाजानीत तां शक्तिमेकघ्नीं सततं रणेअनिवार्यामसह्यां च देवैरपि सवासवैः ॥२॥
सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरान देवकीसुते मुक्ता फल्गुने वापि संजय ॥३॥
संजय उवाच
संग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पतेरात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥४॥
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वाशक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ॥५॥
ततः प्रभातसमये राजन्कर्णस्य दैवतैःअन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ॥६॥
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थयान जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥७॥
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यतादैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥८॥
कृष्णे वा देवकीपुत्रे मोहितो देवमाययापार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥९॥
धृतराष्ट्र उवाच
दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य चगता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥१०॥
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाःअनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥११॥
भूय एव तु मे शंस यथा युद्धमवर्ततकुरूणां पाण्डवानां च हैडिम्बे निहते तदा ॥१२॥
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणःसृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥१३॥
सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य चअमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥१४॥
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम्कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥१५॥
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाःद्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ॥१६॥
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौसमार्छन्मामका युद्धे कथं संजय शंस मे ॥१७॥
सिन्धुराजवधेनेमे घटोत्कचवधेन तेअमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि ॥१८॥
संजय उवाच
हते घटोत्कचे राजन्कर्णेन निशि राक्षसेप्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥१९॥
आपतत्सु च वेगेन वध्यमाने बलेऽपि चविगाढायां रजन्यां च राजा दैन्यं परं गतः ॥२०॥
अब्रवीच्च महाबाहुर्भीमसेनं परंतपःआवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम्हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् ॥२१॥
एवं भीमं समादिश्य स्वरथे समुपाविशत्अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनःकश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ॥२२॥
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत्मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यतेवैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥२३॥
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभोत्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥२४॥
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरःविमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥२५॥
विदिता ते महाबाहो धर्माणां परमा गतिःब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥२६॥
अस्माकं हि वनस्थानां हैडिम्बेन महात्मनाबालेनापि सता तेन कृतं साह्यं जनार्दन ॥२७॥
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम्असौ कृष्ण महेष्वासः काम्यके मामुपस्थितःउषितश्च सहास्माभिर्यावन्नासीद्धनंजयः ॥२८॥
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताःपाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥२९॥
आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभोमदर्थं दुष्करं कर्म कृतं तेन महात्मना ॥३०॥
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दनसैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥३१॥
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मेयेन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ॥३२॥
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैःद्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ॥३३॥
निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम्गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ॥३४॥
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधवचित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ॥३५॥
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनःनिहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥३६॥
कथमस्मासु जीवत्सु त्वयि चैव जनार्दनहैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण संगतः ॥३७॥
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनःनिहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥३८॥
यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिःनासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥३९॥
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मनानिमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥४०॥
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम्व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ॥४१॥
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत्अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथीतथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥४२॥
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वनासैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥४३॥
यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैःद्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ॥४४॥
एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभएतौ रणे समासाद्य पराश्वस्तः सुयोधनः ॥४५॥
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगःतत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥४६॥
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहःततो यास्याम्यहं वीर स्वयं कर्णजिघांसयाभीमसेनो महाबाहुर्द्रोणानीकेन संगतः ॥४७॥
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरःस विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥४८॥
ततो रथसहस्रेण गजानां च शतैस्त्रिभिःवाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैःवृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ॥४९॥
ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताःपाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥५०॥
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम्एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरःजिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥५१॥
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत्दूरं च यातं राजानमन्वगच्छज्जनार्दनः ॥५२॥
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसयाशोकोपहतसंकल्पं दह्यमानमिवाग्निनाअभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥५३॥
कर्णमासाद्य संग्रामे दिष्ट्या जीवति फल्गुनःसव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ॥५४॥
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभसृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ॥५५॥
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनःवासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ॥५६॥
ततो भवेत्ते व्यसनं घोरं भरतसत्तमदिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ॥५७॥
वासवीं कारणं कृत्वा कालेनापहतो ह्यसौतवैव कारणाद्रक्षो निहतं तात संयुगे ॥५८॥
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाःप्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ॥५९॥
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिःकौरवान्समरे राजन्नभियुध्यस्व भारतपञ्चमे दिवसे चैव पृथिवी ते भविष्यति ॥६०॥
नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तयआनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥६१॥
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयःइत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥६२॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 158

0
Adhyaya 158Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0