Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Drona Parva
संजय उवाच
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदाप्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥१॥
चचाल पृथिवी चापि चुक्षुभे च महोदधिःप्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥२॥
शिखराणि व्यदीर्यन्त गिरीणां तत्र भारतअपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ॥३॥
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥४॥
देवदानवगन्धर्वास्त्रस्ता आसन्विशां पतेकथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥५॥
व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसःतद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ॥६॥
धृतराष्ट्र उवाच
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगेभृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥७॥
कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणेको मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय ॥८॥
संजय उवाच
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरःपुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ॥९॥
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगेनिहते वज्रहस्तेन यथा वृत्रे महासुरे ॥१०॥
नाशंसन्त जयं युद्धे दीनात्मानो धनंजयआत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ॥११॥
केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिःविपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥१२॥
भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसःभीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैःयुगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ॥१३॥
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाःशरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ॥१४॥
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताःसंछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ॥१५॥
क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात्नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ॥१६॥
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ॥१७॥
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्पुनरावर्तितं केन यदि जानासि शंस मे ॥१८॥
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम्रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ॥१९॥
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरेमुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ॥२०॥
य एष तुमुलः शब्दः श्रूयते लोमहर्षणःसेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ॥२१॥
मन्ये वज्रधरस्यैष निनादो भैरवस्वनःद्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ॥२२॥
प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराःधनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥२३॥
क एष कौरवान्दीर्णानवस्थाप्य महारथःनिवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥२४॥
अर्जुन उवाच
उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताःधमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ॥२५॥
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हतेधार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ॥२६॥
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम् ॥२७॥
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥२८॥
जातमात्रेण वीरेण येनोच्चैःश्रवसा इवहेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥२९॥
तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदाअश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥३०॥
योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथाकर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥३१॥
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ॥३२॥
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥३३॥
सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवःनायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥३४॥
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥३५॥
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनःआसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥३६॥
स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलःशाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥३७॥
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ॥३८॥
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुनासर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥३९॥
सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशःसोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥४०॥
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनिअवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ॥४१॥
यदा गतं वयो भूयः शिष्टमल्पतरं च नःतस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ॥४२॥
पितेव नित्यं सौहार्दात्पितेव स हि धर्मतःसोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ॥४३॥
धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पतेविसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥४४॥
स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैःअवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ॥४५॥
अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतःन त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥४६॥
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणःकृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ॥४७॥
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविःत्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ॥४८॥
स मया राज्यकामेन हन्यमानोऽप्युपेक्षितःतस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो ॥४९॥
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम्घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥५०॥
End of chapter ॥
1
Mahabharata · Drona Parva

Adhyaya 167

0
Adhyaya 167Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0