महाभारत, पुस्तक रूप में
॥ ॐ ॥यदि आपको इस मंच का अनुभव अच्छा लगा हो…॥ दान ॥तो कृपया दान करेंइससे ये ग्रंथ सबके लिए खुले और निःशुल्क रहते हैं।दान करेंमहाभारत · द्रोण पर्व
॥ श्रीः ॥
अध्याय 168
महाभारत · द्रोण पर्व
संजय उवाच
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाःअप्रियं वा प्रियं वापि महाराज धनंजयम् ॥१॥
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषतउत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥२॥
मुनिर्यथारण्यगतो भाषसे धर्मसंहितम्न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ॥३॥
क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषुक्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ॥४॥
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहःअविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ॥५॥
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेःन चातिवर्तसे धर्मं वेलामिव महोदधिः ॥६॥
न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम्अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥७॥
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्ततेआनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥८॥
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतःद्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥९॥
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससःअनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥१०॥
एतान्यमर्षस्थानानि मर्षितानि त्वयानघक्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥११॥
तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वयासानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥१२॥
त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम्घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥१३॥
स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव तेभयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥१४॥
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शनविदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् ॥१५॥
अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसेयत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससियः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ॥१६॥
स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम्दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥१७॥
आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम्गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥१८॥
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभद्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥१९॥
अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैःअहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥२०॥
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत्संक्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ॥२१॥
बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम्याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ॥२२॥
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितःहतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ॥२३॥
अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितःअमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ॥२४॥
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥२५॥
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषाकुरुते भैरवं नादं तत्र किं मम हीयते ॥२६॥
न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जयाघातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥२७॥
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥२८॥
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणेतं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनंजय ॥२९॥
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितःसर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥३०॥
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम्जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ॥३१॥
नृशंसः स मयाक्रम्य रथ एव निपातितःतन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥३२॥
कृते रणे कथं पार्थ ज्वलनार्कविषोपमम्भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ॥३३॥
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान्छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ॥३४॥
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मयानिषादविषये क्षिप्तं जयद्रथशिरो यथा ॥३५॥
अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुनक्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ॥३६॥
स शत्रुर्निहतः संख्ये मया धर्मेण पाण्डवयथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥३७॥
पितामहं रणे हत्वा मन्यसे धर्ममात्मनःमया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥३८॥
नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुनशिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ॥३९॥
अध्याय समाप्त ॥
१

0
अध्याय 168पृष्ठ 1–1 / 1
पृष्ठ पलटने के लिए कोना खींचें, स्वाइप करें या तीर कुंजियाँ दबाएँ
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0