Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
धृतराष्ट्र उवाच
पाण्ड्ये हते किमकरोदर्जुनो युधि संजयएकवीरेण कर्णेन द्रावितेषु परेषु च ॥१॥
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवःसर्वभूतेष्वनुज्ञातः शंकरेण महात्मना ॥२॥
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात्स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय ॥३॥
संजय उवाच
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥४॥
अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाःतथाश्वनरनागानां कृतं च कदनं महत्इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥५॥
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम्वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥६॥
ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिनादारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥७॥
ततः प्रववृते भूयः संग्रामो राजसत्तमकर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥८॥
धनूंषि बाणान्परिघानसितोमरपट्टिशान्मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥९॥
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान्प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥१०॥
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥११॥
तेन शब्देन महता संहृष्टाश्चक्रुराहवम्वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥१२॥
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम्ताडितानां च पततां निनादः सुमहानभूत् ॥१३॥
बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम्श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥१४॥
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम्बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥१५॥
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च चसाश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥१६॥
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवेशीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥१७॥
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन्विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥१८॥
द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम्विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥१९॥
चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम्विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥२०॥
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैःमौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥२१॥
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत्ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥२२॥
ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिषयमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥२३॥
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाःप्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥२४॥
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाःगदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥२५॥
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैःनदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥२६॥
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताःवमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥२७॥
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैःजीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥२८॥
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथाशक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥२९॥
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथासंचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ॥३०॥
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताःक्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥३१॥
रथै रथा विनिहता हस्तिनश्चापि हस्तिभिःनरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥३२॥
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाःक्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥३३॥
नरांश्च नागांश्च रथान्हयान्ममृदुराहवेअश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥३४॥
सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताःपत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥३५॥
प्रहता हन्यमानाश्च पतिताश्चैव सर्वशःअश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताःसादिभिः पत्तिसंघाश्च निहता युधि शेरते ॥३६॥
मृदितानीव पद्मानि प्रम्लाना इव च स्रजःहतानां वदनान्यासन्गात्राणि च महामते ॥३७॥
रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृपसमुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥३८॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 16

0
Adhyaya 16Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0