Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत्दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥१॥
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैःजिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते ॥२॥
तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाःयुधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः ॥३॥
एष दुर्योधनः पार्थ रथानीकेन दंशितःराजा सर्वस्य लोकस्य राजानमनुधावति ॥४॥
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बलीआशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ॥५॥
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयःयुधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः ॥६॥
पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुःजिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः ॥७॥
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ॥८॥
नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान्बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ॥९॥
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् ॥१०॥
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डवनास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम् ॥११॥
दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य चकर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् ॥१२॥
दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतःसंक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥१३॥
कर्णेन च कृतो राजा विमुखः शत्रुतापनःबलवाँल्लघुहस्तश्च कृती युद्धविशारदः ॥१४॥
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणेसहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः ॥१५॥
तस्यैवं युध्यमानस्य संग्रामे संयतात्मनःअन्यैरपि च पार्थस्य हृतं वर्म महारथैः ॥१६॥
उपवासकृशो राजा भृशं भरतसत्तमब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो ॥१७॥
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरःयद्भीमसेनः सहते सिंहनादममर्षणः ॥१८॥
नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदमधमतां च महाशङ्खान्संग्रामे जितकाशिनाम् ॥१९॥
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभसंचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥२०॥
स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन चप्रच्छादयन्तो राजानमनुयान्ति महारथाःआतुरो मे मतो राजा संनिषेव्यश्च भारत ॥२१॥
यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैःत्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराःमज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ॥२२॥
न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैःपश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥२३॥
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभोपाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥२४॥
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम्शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः ॥२५॥
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दनपश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥२६॥
एते भारत मातङ्गाः कर्णेनाभिहता रणेआर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥२७॥
रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततःद्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना ॥२८॥
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र हरथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥२९॥
असौ धावति राधेयो भीमसेनरथं प्रतिकिरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् ॥३०॥
एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मनाशक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे ॥३१॥
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान्दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥३२॥
पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभतेशत्रूञ्जित्वा यथा शक्रो देवसंघैः समावृतः ॥३३॥
एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम्त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः ॥३४॥
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणेअभिभाषति राधेयः सर्वसैन्यानि मानदः ॥३५॥
अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाःयथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः ॥३६॥
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतःएवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः ॥३७॥
पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम्उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः ॥३८॥
पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारतध्रियमाणेन समरे तथा शतशलाकिना ॥३९॥
एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पतेउत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥४०॥
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुःशरांश्चाशीविषाकारान्विसृजन्तं महाबलम् ॥४१॥
असौ निवृत्तो राधेयो दृश्यते वानरध्वजवधाय चात्मनोऽभ्येति दीपस्य शलभो यथा ॥४२॥
कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारतरिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते ॥४३॥
सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतःत्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥४४॥
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभकृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥४५॥
प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम्आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥४६॥
पञ्च ह्येतानि मुख्यानां रथानां रथसत्तमशतान्यायान्ति वेगेन बलिनां भीमतेजसाम् ॥४७॥
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथाअभिसंहत्य कौन्तेय पदातिप्रयुतानि चअन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ॥४८॥
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मनाउत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ ॥४९॥
असौ कर्णः सुसंरब्धः पाञ्चालानभिधावतिकेतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रतिसमुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप ॥५०॥
आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभराजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ॥५१॥
असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखेवृतः सृञ्जयसैन्येन सात्यकेन च भारत ॥५२॥
वध्यन्त एते समरे कौरवा निशितैः शरैःभीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥५३॥
सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात्विप्रधावति वेगेन भीमस्य निहता शरैः ॥५४॥
विपन्नसस्येव मही रुधिरेण समुक्षिताभारती भरतश्रेष्ठ सेना कृपणदर्शना ॥५५॥
निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम्आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ॥५६॥
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताःपताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥५७॥
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाःकेतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ॥५८॥
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवःनानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥५९॥
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजयसमाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥६०॥
मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात्बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम ॥६१॥
एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान्अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् ॥६२॥
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतपधार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ॥६३॥
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूःपाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ॥६४॥
सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणेकृपकर्णादयो वीरा ऋषभाणामिवर्षभाः ॥६५॥
सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान्धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशःविषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः ॥६६॥
पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमीवज्रिवज्राहतानीव शिखराणि महीभृताम् ॥६७॥
भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिःस्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ॥६८॥
नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम्नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः ॥६९॥
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम्जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ॥७०॥
सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतःतीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ॥७१॥
हत्वैनं पुनरायाति नागानन्यान्प्रहारिणःपश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान्शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम् ॥७२॥
सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाःनिहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन तेदशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥७३॥
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथापुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥७४॥
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताःक्रुद्धेन नरसिंहेन भीमसेनेन वारिताः ॥७५॥
संजय उवाच
भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ॥७६॥
ते वध्यमानाः समरे संशप्तकगणाः प्रभोशक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ॥७७॥
पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिःजघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥७८॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 43

0
Adhyaya 43Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0