Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम्युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाःपरिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥१॥
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान्मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥२॥
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम्बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥३॥
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥४॥
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिनासविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥५॥
ततः सरथनागाश्वाः कुरवः कुरुसत्तमनिर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥६॥
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम्पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः ॥७॥
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैःप्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥८॥
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम्व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥९॥
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैःपार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥१०॥
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिःकम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥११॥
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन्चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥१२॥
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैःसपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥१३॥
ते हेमपुङ्खैरिषुभिराचिता हेममालिनःहताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥१४॥
ततो गाण्डीवनिर्घोषो महानासीद्विशां पतेस्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥१५॥
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततःअश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१६॥
रथा हीना महाराज रथिभिर्वाजिभिस्तथागन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥१७॥
अश्वारोहा महाराज धावमानास्ततस्ततःतत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥१८॥
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यतयत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥१९॥
ततस्त्र्यङ्गेण महता बलेन भरतर्षभदृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥२०॥
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति ॥२१॥
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥२२॥
हतावशिष्टांस्तुरगानर्जुनेन महाजवान्भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥२३॥
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥२४॥
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत्सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥२५॥
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवःपोथयामास गदया सशब्दं तेऽपतन्हताः ॥२६॥
हत्वा तु तद्गजानीकं भीमसेनो महाबलःपुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥२७॥
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम्व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥२८॥
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम्दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥२९॥
ततः कुरूणामभवदार्तनादो महामृधेरथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥३०॥
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम्अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥३१॥
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम्आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥३२॥
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनःनिराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥३३॥
अविषह्यं तु पार्थस्य शरसंपातमाहवेमत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥३४॥
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैःप्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥३५॥
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून्हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥३६॥
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रतिअगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥३७॥
कुरवो हि महाराज निर्विषाः पन्नगा इवकर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥३८॥
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारतधर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥३९॥
तथा कर्णं महेष्वासं पुत्रास्तव नराधिपउपालीयन्त संत्रासात्पाण्डवस्य महात्मनः ॥४०॥
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥४१॥
संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम्धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसयापाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥४२॥
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाःकर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥४३॥
ततः शरसहस्राणि कर्णमुक्तानि मारिषव्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥४४॥
ततो रणो महानासीत्पाञ्चालानां विशां पतेवध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥४५॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 59

0
Adhyaya 59Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0