Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Karna Parva
संजय उवाच
ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन्पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसंघान् ॥१॥
सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्यशतानीकं सुतसोमं च भल्लै;रवाकिरद्धनुषी चाप्यकृन्तत् ॥२॥
धृष्टद्युम्नं निर्बिभेदाथ षड्भि;र्जघान चाश्वं दक्षिणं तस्य संख्येहत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम् ॥३॥
तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वाशरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् ॥४॥
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णःस स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः ॥५॥
हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैःप्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात ॥६॥
पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुःहतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम् ॥७॥
स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम्शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् ॥८॥
शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्तअथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा ॥९॥
अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णःअपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह ॥१०॥
ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगामभये तेषां त्राणमिच्छन्सुबाहु;रभ्याहतानां रथयूथपेन ॥११॥
विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं चबाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च ॥१२॥
तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम्तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ ॥१३॥
अत्रान्तरे सुमहत्सूतपुत्र;श्चक्रे युद्धं सोमकान्संप्रमृद्नन्रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च ॥१४॥
तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ चकर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ॥१५॥
ते पञ्च पाञ्चालरथाः सुरूपै;र्वैकर्तनं कर्णमभिद्रवन्तःतस्माद्रथाच्च्यावयितुं न शेकु;र्धैर्यात्कृतात्मानमिवेन्द्रियाणि ॥१६॥
तेषां धनूंषि ध्वजवाजिसूतां;स्तूणं पताकाश्च निकृत्य बाणैःतान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद ॥१७॥
तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेनसाद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् ॥१८॥
स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन्बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा ॥१९॥
शिखण्डिनं द्वादशभिः पराभिन;च्छितैः शरैः षड्भिरथोत्तमौजसम्त्रिभिर्युधामन्युमविध्यदाशुगै;स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥२०॥
पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिषनिरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः ॥२१॥
निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवेउद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥२२॥
ततः शिनीनामृषभः शितैः शरै;र्निकृत्य कर्णप्रहितानिषून्बहून्विदार्य कर्णं निशितैरयस्मयै;स्तवात्मजं ज्येष्ठमविध्यदष्टभिः ॥२३॥
कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत्स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥२४॥
समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणाबभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः ॥२५॥
पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपाःसमेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे ॥२६॥
ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सहरथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् ॥२७॥
रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताःपरस्परेणाभिहताश्च चस्खलु;र्विनेदुरार्ता व्यसवोऽपतन्त च ॥२८॥
तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैःतमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् ॥२९॥
ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत्परस्परेणाभिनिविष्टरोषयो;रुदग्रयोः शम्बरशक्रयोर्यथा ॥३०॥
शरैः शरीरान्तकरैः सुतेजनै;र्निजघ्नतुस्तावितरेतरं भृशम्सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ ॥३१॥
तवात्मजस्याथ वृकोदरस्त्वर;न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत्ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः ॥३२॥
स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत्स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् ॥३३॥
End of chapter ॥
1
Mahabharata · Karna Parva

Adhyaya 60

0
Adhyaya 60Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0