Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
संजय उवाच
तस्मिंस्तु निहते शूरे शाल्वे समितिशोभनेतवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥१॥
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथःदधार समरे शूरः शत्रुसैन्यं महाबलः ॥२॥
संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवेशैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ॥३॥
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सहनिवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥४॥
तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सहयदेको वारयामास पाण्डुसेनां दुरासदाम् ॥५॥
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करेसिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ॥६॥
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभशिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥७॥
स समासाद्य राजानं क्षेमधूर्तिं महाबलम्सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥८॥
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान्जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम् ॥९॥
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौअन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ॥१०॥
पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाःप्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥११॥
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौअभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥१२॥
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौमुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥१३॥
चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोःआकाशे समपश्याम पतंगानिव शीघ्रगान् ॥१४॥
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजःअविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥१५॥
स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपःअष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ॥१६॥
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैःसात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥१७॥
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवःअन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥१८॥
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम्आरोप्य च महावीर्यो महाबुद्धिर्महाबलः ॥१९॥
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणाकुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥२०॥
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवःजघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ॥२१॥
ततो राजन्महेष्वासः कृतवर्मा महारथःहताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम् ॥२२॥
रोषेण महताविष्टः शूलमुद्यम्य मारिषचिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम् ॥२३॥
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैःचूर्णितं पातयामास मोहयन्निव माधवम्ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥२४॥
स युद्धे युयुधानेन हताश्वो हतसारथिःकृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥२५॥
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृतेसमपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥२६॥
पुत्रस्य तव चात्यर्थं विषादः समपद्यतहतसूते हताश्वे च विरथे कृतवर्मणि ॥२७॥
हताश्वं च समालक्ष्य हतसूतमरिंदमम्अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम् ॥२८॥
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम्अपोवाह महाबाहुस्तूर्णमायोधनादपि ॥२९॥
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणिदुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥३०॥
तत्परे नावबुध्यन्त सैन्येन रजसावृतेतावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥३१॥
दुर्योधनस्तु संप्रेक्ष्य भग्नं स्वबलमन्तिकात्जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥३२॥
पाण्डूंश्च सर्वान्संक्रुद्धो धृष्टद्युम्नं च पार्षतम्शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥३३॥
केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिषअसंभ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ॥३४॥
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलःयथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ॥३५॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवेअथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥३६॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 20

0
Adhyaya 20Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0