Mahabharata, opened as a book
॥ ॐ ॥If you like your experience on the platform…॥ दान ॥please donateIt keeps these books open and free for everyone.DonateMahabharata · Shalya Parva
जनमेजय उवाच
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपःसिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥१॥
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तमतन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ॥२॥
वैशंपायन उवाच
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमःवसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥३॥
तस्य राजन्गुरुकुले वसतो नित्यमेव हसमाप्तिं नागमद्विद्या नापि वेदा विशां पते ॥४॥
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाःततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥५॥
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमःतत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥६॥
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवःआप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥७॥
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यतिअपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ॥८॥
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिःएवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ॥९॥
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥१०॥
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियःतपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥११॥
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवितस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥१२॥
स राजा कौशिकस्तात महायोग्यभवत्किलस पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥१३॥
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाःन गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥१४॥
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदाविश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥१५॥
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य चजगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपःन च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ॥१६॥
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ॥१७॥
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ॥१८॥
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात्ददृशे च ततः सर्वं भज्यमानं महावनम् ॥१९॥
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमःसृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥२०॥
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान्ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥२१॥
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजःतपः परं मन्यमानस्तपस्येव मनो दधे ॥२२॥
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितःनियमैश्चोपवासैश्च कर्शयन्देहमात्मनः ॥२३॥
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ॥२४॥
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरेन चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥२५॥
ततः परेण यत्नेन तप्त्वा बहुविधं तपःतेजसा भास्कराकारो गाधिजः समपद्यत ॥२६॥
तपसा तु तथा युक्तं विश्वामित्रं पितामहःअमन्यत महातेजा वरदो वरमस्य तत् ॥२७॥
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्वितितथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥२८॥
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाःविचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥२९॥
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसुपयस्विनीस्तथा धेनूर्यानानि शयनानि च ॥३०॥
तथा वस्त्राण्यलंकारं भक्ष्यं पेयं च शोभनम्अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान् ॥३१॥
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥३२॥
End of chapter ॥
1
Mahabharata · Shalya Parva

Adhyaya 39

0
Adhyaya 39Pages 1–1 of 1
Drag a page corner, swipe, or use the arrow keys to turn the page
Contains information from DharmicData (github.com/bhavykhatri/DharmicData), made available under the ODbL v1.0